________________
460
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडव्य
तत्वमक्ताकलापः एकं तत्तत्प्रदेशप्रतिनियततया शक्तिभेदं प्रपन्नं देहव्यापीन्द्रियं चेत् प्रथममिह
सर्वार्थसिद्धिः __ कल्प्यते शक्तिभेदश्चेत् शक्तिरेवेन्द्रियं भवेत् । इति च अयुक्तम् । धर्मिकल्पनातो वरं हि धर्मकल्पनम् ! प्रदेशानामेव तत्तत्करणत्वोपपत्तौ प्रदेशक्लप्तिरनथिंकेति चेन; देहव्यापिनः स्पर्शस्योभयसंमतेः। तस्य च करतलप्रकोष्ठास्यनेत्रादिषु स्पर्शग्रहणशक्तिवैषम्यदृष्टेः । अतश्चैकस्यैव सर्वत्र देहे स्पर्शनत्वं तत्र तत्र चक्षुरादित्वं चेति । तदेतदाह-एकमिति । किमेकेन्द्रियस्य श्रुतस्य कल्पितस्य वा शक्तिभेदव्यवस्थापनम् ? इति विकल्पमभिप्रेत्य आद्यं दूषयति--प्रथममिति । बाधस्य दूषणा
आनन्ददायिनी रूपादिबोधहेतुत्वादेतान्यायतनानि षट् ॥ इति बौद्धविलासवचनमपि शक्तिभेदपरतया व्यवस्थाप्यमित्यर्थः । ननु शक्तिभेदो यद्यङ्गीक्रियते तहीन्द्रियभेद एवाङ्गीक्रियतां अविशेषादिति शङ्कते-कल्प्यते शक्तिभेदश्चेदिति । इन्द्रियकल्पनापक्षेऽपि शक्तिभेदकल्पनाया आवश्यकत्वादिति भावः । ननु यद्यकस्मिन् शक्तिभेदकल्पना तदा चक्षुरादिदेशव्यापीन्द्रियावयवि कल्प्यं ; अन्यथा शक्तिभेदव्यवस्थायोगात् ; तथाच तदारम्भकतत्तद्देशवय॑वयवानामेव करणत्वमस्तु किं तदवयविना तत्र शक्तिभेदकल्पनया च? इति शङ्कते-प्रदेशानामेवेति । नेति-तादृशस्य त्वगिन्द्रियस्य त्वयाऽभ्युपगमादिति भावः । नन्वेकस्मिन् विचित्रशक्तिकल्पनं क्वचिदपि न दृष्टमित्यत्राह-तस्य चेति । दूषणान्त