SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ सरः] पूर्वोक्तापत्तिदाय कल्पकान्तरनिरः सः देहातिरेकासिद्धिरिष्टापत्त्ययोगश्च 463 तत्वमुक्ताकलापः तया सर्वजन्तोस्तदेकं भेदाम्नानादक्लप्तेरपि नच भजते देह एवेन्द्रियत्वम् ॥ ३८ ॥ सर्वार्थसिद्धिः अतिरिक्तेन्द्रियकल्पनेऽपि देहावयवानां नियतोपकारकत्वमिष्यते। अस्तु तर्हि अयमेव पक्ष इत्यत्राह-भेदाम्नानादिति । अयं भावः* भौतिकादेहादिन्द्रियाणां सात्विकाहङ्कारोपादानकत्वेन भेदानानात् क्लप्तिप्रसङ्गाभावात् बाधाच मुधात्र लघुपक्षोक्तिरिति ॥ ३८ ॥ एकेन्द्रियवाभङ्गः आनन्ददायिनी ध्येयम् । कल्पनपक्षेऽपि देहस्यैवावश्यकतया इन्द्रियत्वमस्त्वित्यत्राहअतिरिक्तेति । नन्विन्द्रियाणि देहभिन्नानीति न कचिदप्याम्नातमित्यत्राहअयं भाव इति । साक्षाद्भेदाम्नानाभावेऽपि उभयोभिन्नोपादानकत्वदेहाश्रितत्वादिबोधनात् तत्सिद्धमिति भावः । क्लप्तिपक्षे लाघवन्यायेन देहस्येन्द्रियत्वप्रसङ्गो नात्र क्लप्तिरित्यत्राह--क्लप्तिप्रसङ्गाभावादिति ।। एकेन्द्रियवादभङ्गः भावप्रकाशः ___1* भौतिकादित्यादि-'पञ्चतन्मात्रा भूतशब्देनोच्यन्ते । अथ पञ्च महाभूतानि भूतशब्देनोच्यन्ते ! अथ तेषां यत्समुदयं तच्छरीरमित्युक्तम् , इति मैत्रायणीयश्रुति भौतिकमावेदयति । विष्णुपुराणे त्रिविधोऽयमहङ्कारा महत्तत्त्वादजायत ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy