________________
करणगणपाठस्य करणत्वासाधकता पाठस्योपपत्तिव
आनन्ददायिनी
अथैष ज्योतिः अथैष विश्वज्योतिः अथैष सर्वज्योतिः एतेन सहस्रदक्षिणेन यजेत ' इति । तत्रैतच्छन्दपरामृष्टानां ज्योतिरादिशब्दानां योजना सामानाधिकरण्याद्यागनामत्वं तावत्सिद्धम् । तत्र प्रकृतमेव ज्योति (ष्टोमज्योति) रादिशब्दैरनूद्य सहस्रदक्षिणारूपगुणो विधीयत इति पूर्वपक्षयित्वा नामान्तरश्रुतौ तावदर्थभेदः प्रतीयते संज्ञाभेदस्यार्थभेदकत्वात् प्रकृतात् ज्योतिष्टोमाद्भेद उक्तः । तथा शब्दान्तराधिकरणे (प)च यजति ददाति जुहोतीति शब्दभेदात् भेद उक्त इति तन्नयायेनात्रापि भेदस्स्यादिति चेत्; अत्राहुः न तावत् संज्ञाभेदस्योक्ताधिकरणन्यायेन भेदकत्वं बलवता बाधकेन बाधितत्वात् । तदुक्तं तदधिकरणराद्धान्तेबलवद्बाधकाच्चासावन्यथात्वं प्रपद्यते ।
सरः ]
457
इति । प्रकृते च एकादशत्ववचनानि बाघकानि । नापि शब्दाधिकरणन्यायः ! वेदनध्यानोपासनानां भेदप्रसङ्गात् । आहवनीयादिशब्दानां पशुच्छागादिशब्दानां हविः पुरोडाशादिशब्दानामापि भेदकत्वापत्त्या बहुदोषप्रसङ्गात् । तस्मादत्रापि बाधकाभावे भेदकत्वं वाच्यम् । बाघककरं चात्रोक्तमेवेति । केचित्तु - तेषां भेदोऽस्तु नाम ! नच करणत्वमपि । तत्साधकाभावात् । अत एव न शब्दान्तराधिकरणविरोधोऽपि । नच भाष्यमूलयोर्विरोधः ! इन्द्रियत्वं करणत्वं चाभ्युपेत्य प्रवृत्तेः । नच करणमध्ये पाठात् करणत्वप्रसक्तिः । अनुवादसन्निधेरकिञ्चित्करत्वात् । पुरोवादे महतोऽहङ्कारस्य च तत्वान्तरोपादानतया करणत्वेन्द्रियत्वाभावात् । अत एवाङ्गत्वाभावनिश्चयाद्दर्श पूर्ण मासाभ्यामिष्टा सोमेन - यजेतेत्यत्र कालार्थस्संयोगो नाङ्गाङ्गिभावार्थ इयुक्तम् । महदाद्यतिरिक्तपरत्वे तु तत्वाधिक्यप्रसङ्गः । ज्ञानादिपरत्वेनान्यथासिद्धिश्च । अहङ्कार शब्दोऽपि ज्ञानपर एव बुद्धिशब्दसन्निधानात् । युक्तं च तथा ज्ञान