________________
458
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः नच चित्तं नाम तत्वान्तरं सृष्टिप्रलयप्रकरणेषु पठ्यते! 'अय. मेव त्वहङ्कारः उत्कृष्टजनावमानहेतुः' इत्यादि प्रथमसूत्रभाष्य
आनन्ददायिनी करणानां तादधीन्यकथनानन्तरं ज्ञानस्य तथात्वकथनमिति । नच द्रव्यप्रकरणविरोधः ! ज्ञानस्यापीन्द्रियादिवत् अवस्थाविशेषाश्रयद्रव्यत्वादित्याहुः । ननु वृत्तिभेदमादाय कथञ्चिन्नयने को हेतुरित्यत्राहचित्तं नामेति । अन्यथा सृष्टिप्रलयप्रकरणेषु पृथिव्यादिवत् पाठप्रसङ्ग इति भावः । नच 'इन्द्रियाणि तन्मात्रेष्विति मनसो यथा पाठः तथा स एव बुद्ध्यादेः पाठोऽस्तु । किञ्च महदहङ्कारयोरेव बुद्ध्यहङ्कारत्वात् 'प्रकृतेर्महान् महतोऽहङ्कारः' इति तयोः पाठो दृश्यत इति शङ्कयम् ! तैर्बुद्धयादेरिन्द्रियत्वानभ्युपगमात् । तदतिरिक्तत्वे पाठाभावात् ; 'इन्द्रियाणि दशैकं च ' 'चक्षुश्श्रोत्रम्' इति विशेषकीर्तनात् । कीर्तितयोर्महदहङ्कारयोश्च सद्वारकाद्वारकतयेन्द्रियजनकयोः करणत्वाभावाचेति भावः। ननु बुद्धयादीनामिन्द्रियमध्ये पाठो व्यर्थः मनः पाठमात्रेणाऽपि चरितार्थत्वात् इति चेत् ; अत्राहुः--सर्वेन्द्रियप्रधानस्यापि मनसस्सर्वावस्थायामपि तादधीन्यसिद्धयर्थ बुद्धयहङ्कारवृत्तिविशिष्टस्य वा सर्वत्र प्रवृत्तिप्रयोजकतया प्राधान्यद्योतनाथ त्रेधा कथनमिति । अन्ये तु प्रकरणस्य तादधीन्यमुखेन स्वातन्त्रयभ्रमनिवृत्तिपरत्वात् न भेदेन कथनवैयर्थ्यं द्रष्टव्यम् । बोद्धव्याहङ्कर्तव्यानां भेदाभावेऽपि पृथगुक्तेरिव किञ्चिद्विशेषमादायापि स्वातन्त्रयबुद्धिनिरासः फलमित्याहुः । ननु अयमेव त्वहङ्कार इति भाष्ये अहङ्कारस्य उत्कृष्टजनावमानरूपप्रवृत्तिकरणत्वोक्तेः मनोऽतिरिक्तमप्यन्तःकरणमभिमतमित्यत्राह-अयमेव त्विति।