________________
456
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः बुद्ध्याद्याख्या निरूढा क्वचिदिह मनसो वृत्ति -
वैचित्रयमात्रात् ॥ ३७॥ सर्वार्थसिद्धिः
अतः करणगणमध्यपाठात् अग्रयप्रायनयेन बुद्ध्यादीन्यपि करणानि स्युः ? इत्यत्राह – बुद्ध्याद्याख्येति । तथाच भाष्यं - ‘अध्यवसायाभिमानचिन्तावृत्तिभेदात् मन एव बुद्धयहङ्कारभेदैर्व्यपदिश्यते ' इति । अतः तत्ववर्गमध्ये मनोऽनन्तरं बुद्धयादिचित्तान्तपाठोऽपि मनस एव हि वृत्तिभेदविशिष्टस्येति नेतुं शक्यम् । आनन्ददायिनी
--
अग्रयप्रायेति—अग्रया (ग्रयप्राया) णां बहुत्वे तन्मध्यगतस्याप्यग्रयत्वबुद्धिविषयत्वम् । तथा करणमध्यपाठात् करणत्वनिश्चय इत्यर्थः । अपसिद्धान्तं वारयति - तथाच भाष्यमिति । त ( अ )त्र युक्तमाकाङ्क्षानुवृत्तिस्तद्बलाद्राजसूयाङ्गत्वं च राजसूयशब्दस्य तदङ्गत्वाकाङ्क्षो द्बोधकस्य सत्त्वात् नचात्र करणत्वोद्बोधकमस्ति ! नच करणमध्य संदेशात्करणत्वम् ! इन्द्रियमध्यसंदंशात् बाह्यमध्यसंदेशाच्च बाह्येन्द्रियत्वस्यापि प्रसङ्गात् । नचेन्द्रियत्वादौ बाधकमस्तीति चेत्; करणत्वे समानम् । नचेन्द्रियत्वमप्यस्त्विति वाच्यम्; अपसिद्धान्तात् । ' इन्द्रियाणि दशैकं चं ' इत्यादिविरोधात् । किंच स्थानप्रकरणाभ्यां लिङ्गं बलीय इति सिद्धान्तितम् । तथाच प्रकृतित्वरूपलिङ्गात् अग्रयप्रायरूपस्थानसंदेशन्यायरूपप्रकरणयोर्बाधात् न करणत्वनिश्चय इत्यर्थः । अभिमानः-- अहं कर्तेति बुद्धिः । अत इति – ननु ' संज्ञाचोत्पत्तिसंयोगात्' इत्यधिकरणविरोधः ; तथा हि-ज्योतिष्टोमप्रकरणे श्रूयते