________________
सरः अन्तःकरणवैविध्य तत्वपतिपाठमात्रं न साधकं वृत्तिभेदमात्रस्याकल्पकता च+55
सर्वार्थसिद्धिः भेदमन्येऽप्याहुः! श्रूयते च 'कामस्संकल्प' इत्यादौ 'एतत्सर्व मन एव' इति । अत्र आयुघृतमित्यादिवत्सामानाधिकरण्यम् । पुरुषधर्मा एव हि कामादयोऽध्यवसायादयश्च! तदिह पुरुषबुद्धिभेदनियतसामाग्रीभेदव्यवस्थितं वृत्तिभेदमानं न करणभेदकल्पकमिति भावः । ननु 'चक्षुश्च द्रष्टव्यं च नारायणः' इत्यादिना पञ्च ज्ञानेन्द्रियाण्युक्ता 'मनश्च मन्तव्यं च नारायणः । अहङ्कारोऽहङ्कर्तव्यं च नारायणः । चित्तं च चेतव्यं च नारायणः' इत्यानातम् । अनन्तरं चैवं कर्मेन्द्रियाण्यधीतानि ।
आनन्ददायिनी निश्चयः । न च विनिगमकाभाव इत्यत्राह-श्रूयते चेति । एकस्यैव मनसो बाह्यवृत्तय इति सिद्धा इत्यर्थः । चकारेण ‘पञ्चवृत्तिर्मनोवयपदिश्यते' इति प्राणविषयसूत्रसिद्धत्वं चाभिप्रेतम् । ननु भवन्मते कामादीनामात्मधर्मत्वात् म(नसि श्रूयन्त इत्ययुक्तंट)नोवृत्तित्वं कथम् ? तथा सति करणस्यैवात्मत्वप्रसङ्गः । कथं वा तेषां भेदव्यपदेशनिमित्तत्वं चेत्यत्राह–अत्रेति । तथाच तद्गतत्वाभावेऽपि तत्सामानाधिकरण्यनिर्देशः तद्भदव्यपदेशनिमित्तत्वं च संभवतीत्यर्थः । ननु पूर्वतन्त्रे स्थानप्रकरणयोर्बलाबलविचारेऽपि इष्टिसोमात्मकराजसूयान्तर्गताभिषेचनीयनामकसोमयागसन्निधौ विदेवनादयस्समाम्नाताः। ते किं सर्वस्य राजसूयस्याङ्गं उताभिषेचनीयस्येति संशय्य सन्निधि (वशा) बलादभिषेचनीयस्याङ्गमिति पूर्वपक्षयित्वा श्रुत्यादिविहिताङ्गसंदंशाद्राजसूयाङ्गत्वम् ? पवित्रादारभ्य क्षत्रस्य धृति यावत् अङ्गविधिषु प्रायेण 'राजसूयाय ह्येना उत्पुनाति' इति राजसूयप्रकरणानुवृत्तिसत्त्वादिति राद्धान्तितम् ; तन्नयायेन संदंशात् करणत्वबुद्ध्यनुवृत्तेः करणत्वमिति शङ्कते-नन्विति ।