________________
450
संव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः चनम् । 'एका कन्या दशेन्द्रियाणि' इत्यादेने हि कश्चिद्वाधो दृश्यते! नच कणभक्षाक्षपादाद्यनुसारेण षट्कावच्छिन्नेन्द्रियलक्षणक्लप्तियुक्ता! यथाऽऽहुः
सिद्धानुगममात्रं हि कर्तुं युक्तं परीक्षकैः ।
न सर्वलोकसिद्धस्य लक्षणेन निवर्तनम् ॥ इति । वक्ष्यते चानुवृत्तं तल्लक्षणं सात्विकाहङ्कारोपात्तत्वम् । नच कर्मेन्द्रियाणां तन्त्रान्तरसिद्धं राजसत्वमनुमन्तव्यम् । शब्दप्रमा
आनन्ददायिनी एका कन्येति--चञ्चलत्वान्मनः कन्येत्युक्तम् । 'इन्द्रियाणि दशैकं च' इति स्मृतिरनुसन्धेया)तिः । ननु शरीरसंयुक्तमतीन्द्रियं ज्ञानकारणमिन्द्रियमित्यादिलक्षणाभावाद्वागादीनां नेन्द्रियत्वामेत्यत्राह--न च कणभक्षाक्षपादेति। तेषामव्याप्तत्वान्न लक्षणत्वमिति भावः । अव्याप्तिमेव दर्शयति-यथाऽऽहुरिति । सर्वलोकव्यवहारसिद्धवागादावव्याप्तेरिति भावः । अन्यथा गवां क्षीरवत्त्वे सति सास्नावत्त्वं लक्षणमुक्त्वा पुङ्गवानां गोत्वं नेति ब्रुवतः किमुत्तरमिति भावः । तर्हि अव्याप्तयादिरहितं तल्लक्षणं किमित्यत्राह- वक्ष्यते चेति । ननु भवदभिमत (भवदुक्त)स्यापि लक्षणस्य राजसाहङ्कारोपात्त(तेषु)कर्मेन्द्रियेप्वव्याप्तिरित्याहनच कर्मेन्द्रियाणामिति । तन्त्रान्तरं-शैव(मतशास्त्रं) मतम् । नन्वेवं तर्हि राजसाहङ्कारस्या (स्येन्द्रिया) नारम्भकत्वे प्रकृतित्वमेव न स्यात् । नचेष्टापत्तिः ; षोडश विकारा इति परिगणनविरोधात् । नच प्रकृतित्वमवस्थाश्रयत्वमात्रं विवक्षितम् ; आत्मादेरपि संयोगादिरूपविकारवत्त्वेन 'अष्टौ प्रकृतयः' इति विभागविरोधात् । नापि द्रव्यान्तरप्रकृतित्वम् ;