________________
सरः] धकर्मेन्द्रियाणां कल्पकसद्भावतील्यं तदन्यथासिद्धितत्परिहारतील्यं च 449
तत्वमुक्ताकलापः
धीन्द्रियाणां तद्वद्वत्यादिकर्मस्वपि करणतया सन्तु कर्मेन्द्रियाणि । कर्मज्ञानाक्षहेत्वोस्समपरिहरणा ह्यन्यथासिद्धिशङ्का तस्मादेकादशाक्षाण्यपि निग
मविदो
सर्वार्थसिद्धिः
सिद्धद्रव्यसामर्थ्यविशेषस्य प्रतिफलनादौ संमन्तव्यस्य कार्यान्तरयोजनामात्रम् ; अतो धीन्द्रियाणां कल्प्यत्वे कर्मेन्द्रियाणामपि क्लप्तिरनिवार्या; अन्यथासिद्धिशङ्कापरिहारौ च समाविति । तदेतत्सर्वमभिप्रेत्याह- कर्मेति । त्यज्यतां ता वर्गद्वयमिति चार्वाकोत्थानं प्रतिरुणद्धि —तस्मादिति । अतीन्द्रियेन्द्रिय कल्प्यत्वासंभवात् ; अप्राप्ते च शास्त्रस्यार्थवत्वादिति भावः । निगमविद इत्यनेन श्रुतिस्मृत्यनुविधानस्
आनन्ददायिनी
फलनासामर्थ्यं संमतं तस्यैव दर्पणादेस्सिद्धस्य स्वाभिमुखवस्तुग्रहणसामर्थ्यमपि कल्प्यतां न धर्म्यन्तरं गौरवादिति भावः । कार्यान्तर - योजनं – प्रकाशरूपकार्यान्तरेण सामर्थ्याविशेषस्य संबन्धः । वर्गद्वयमिति—–कर्मज्ञानेन्द्रियवर्गद्वयमित्यर्थः । चार्वाकस्यातीन्द्रियार्थाभावेन इन्द्रियाभावादिति भावः । अतीन्द्रियेति – पूर्वोक्तरीत्या अनुमानाद्यप्रवृत्तावपि श्रुतिबलात् सिद्धिः ; तत्प्रामाण्यं च समर्थितमिति भावः ।
SARVARTHA.
29