________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
कथं तर्हि दूरस्थं व्यवहितं वा न प्रकाशयति ? इत्थम् ;यथा अयस्कान्तादेरव्यवहितानतिविप्रकृष्टाकर्षकत्वं तथेह प्रकाशकत्वम् | आभिमुख्यविशेष एव च बाधैरुक्तस्संबन्धोऽस्तु । नन्वयस्कान्तादिवदाभिमुख्याभावेऽपि दर्पणादिभिः स्वमुखादेः पश्चाद्भागवर्तिनां च दर्शनं कथं स्यात् ? भवतो वा कथम् ? चाक्षुषस्य तेजसः प्रतिलोमवृत्त्येति चेत्; सा कुड्यपाषाणादौ कथं न जायते ? मणिसलिलदर्पणादिषु च कथं भवति ? अपर्यनुयोज्यतत्तद्वस्तुस्वभावविशेषादिति चेत्; अस्तु तर्हि स एव सन्निधिविशेषसामर्थ्यादनाभिमुख वस्तुनि दर्शनस्य हेतुः; द्रव्यान्तरकल्पनाद्वरं
448
[जद्रव्य
आनन्ददायिनी
भावः । दूरस्थादिप्रकाश नरूपातिप्रसङ्ग प्रतिबन्द्या परिहरति- इत्थमिति । अयस्कान्तादेस्संबन्धाभावेऽप्याकर्षे यथा नातिप्रसङ्गस्तथेहापीत्यर्थः । सम्बन्धेनैवातिप्रसङ्गः परिहरणीय इति यदि तदा सोऽप्यस्तीत्याहआभिमुख्यविशेष इति । ( ननु ) आभिमुख्यस्य ( स्याव्याप्तत्वात् ) न संबन्धत्वमिति शङ्कते ---- नन्वयस्कान्तादिवदिति । अतिरिक्तेन्द्रियाभ्युपगमवादिनोऽपि पाश्चात्येन चक्षुषस्संबन्धाभावात् कथं प्रकाश इति चोद्यं समानमित्याह - भवतो वेति । दर्पणाद्यभिघाताच्चाक्षुषतेजसः प्रतिलोमगतिर्भवतीति भावः । सेति तैरपि प्रतिघातात् सा प्रतिलोमवृत्तिर्जायेताविशेषादिति भावः । परिहारमाशङ्कते — अपर्यनुयोज्येति । स एव वस्तुस्वभाव एव । सन्निधिविशेषः - दर्पणापेक्षयाभिमुख्यरूपः । ननु सामर्थ्यविशेषस्यापि कल्प्यत्वादिन्द्रियकल्पने कः प्रद्वेष इत्याह-द्रव्यान्तरकल्पनादिति । प्रतिफलनं दर्पण एव न कुड्यादाविति प्रति
Į
---