________________
सरः]
ज्ञानकर्मेन्द्रिययोः इन्द्रियत्वसाधकबाधको पपनितीनं
सर्वार्थसिद्धिः सिद्धसाध्यता । गोळकादिसद्भावपि कदाचित् कार्य न जायते इत्यतिरिक्तसिद्धिारति चेत् ; समं वागादावपि । सामग्रीवैकल्यात् प्रतिबन्धकाञ्च तत्र तथेति चेत् । चक्षुरादावपि तथैव । सत्यप्यालोकादौ दोषादर्शनेऽपि गोळकादितः कदाचित् कार्य न जायत इति चेत् । तदपि समम् । दोषस्मूक्ष्मस्तत्रेति चेत् । अत्राप्येवमस्तु; ज्वालाघ्रातवीजन्यायेन विशेषादर्शनेअपि दोषस्य कल्प्यत्वात् । कल्पितेऽपि ह्यतीन्द्रिये तदानीं तद्भशहेतुस्सूक्ष्मो दोषस्त्वयाप्यङ्गीकार्यः; अन्यथा कर्मेन्द्रियक्लप्तेरन्यथासिद्धिः । ननु च यदि चक्षुर्गोळक एवन्द्रियं
आनन्ददायिनी प्रकाशकसौरालोकादिभिः । ज्ञानेन्द्रियादिप्वन्यथासिद्धयभावं शङ्कतेगोळकाहीति । सममिति-मूकादीनां वागाद्यवयवसत्त्वेपि वचनादिक्रियाया अदर्शनात् परिहरणं सममित्यर्थः । न समतेति शङ्कतेसामग्रीति । पुनर्ज्ञानेन्द्रियेषु वैषम्यमाशङ्कते-सत्यपीति । तदपीतिदोषदर्शनमित्यर्थः । सूक्ष्मति-वागादौ दोषाभावोऽनुपलम्भमात्रान्न वक्तुं शक्य इत्यर्थः । तदपि सममित्याह-अत्रापीति । ज्वालाघातं-ज्वालास्पृष्टम् । ननु अप्रत्यक्ष (अनुपलब्ध) प्रतिबन्धकल्प(नापक्षे)ने कल्प्यत्वाविशेषात् इन्द्रियक्लप्तिरेवास्तु इत्यत्राह-कल्पितेपीति । इन्द्रियकल्पना गुरूति भावः । अन्यथा-सूक्ष्मदोषस्याकल्पने। ननु ज्ञानेन्द्रियानभ्युपगमे बाधकमस्ति न तु वागादीनामिति वैषम्यं शङ्कतेनन्विति । गोळकमात्रस्य प्रकाशकत्वे तस्य दूरस्थविषयसम्बन्धाभावा. दप्राप्तप्रकाशकत्वस्य वाच्यत्वेन अविशेषात् सर्व सर्वदा प्रकाशयदिति
-
-