________________
446
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
-
सर्वार्थसिद्धिः विकेति व्याप्तया रूपादेस्सुखादेचोपलब्धिः स्मृतिश्च क्रियात्वात् करणपूर्विकैति कल्प्येत तदा वचनादानादिक्रियापि तत्पूर्विका कल्प्या स्यात् । अथ तावता अधिष्ठानातिरिक्तं न सिध्यतीति मन्यसे! ज्ञानेन्द्रियेष्वपि तथैव ; आलोकादिभिरधिष्ठानैश्च
आनन्ददायिनी धुपलब्धिः स्मृतिश्च मनोऽनुमाने पक्षः । ननु आधिष्ठानेन वागाद्यवयवेनान्यथासिद्धिरिति शङ्कते--अथ तावतेति । आलोकादिभिः-विषय
भावप्रकाशः मनः ; एकादशं संकल्पाद्यात्मकम्' इत्यत्र संकल्पाद्यात्मकमित्यनेन मनसः प्राधान्यं बोधितं एकादशमित्यनेन मनस इन्द्रियत्वं च, अन्यथा तस्य वैयर्थ्यं स्यात् । एकादशमित्यनेन 'एकादशं मनश्चात्र' (१-२) इति विष्णुपुराणवचनं स्मारितम् । तत्र च संदर्भे 'श्रोत्रमत्र च पञ्चमम्' 'वाक्च मैत्रेय पञ्चमी, इत्यत्र इन्द्रियेणैव संख्यापूरणस्य विवक्षितत्वेन 'एकादशं मनश्चात्रत्यत्रापि मनसा इन्द्रियेणैव सख्यापूरणं विवक्षितमिति प्रतीयते । एवं 'तानि चैतानि सांख्याश्चतुर्विंशतितत्वान्याचक्षते' इति तत्रत्यगीताभाष्यवाक्येन सांख्यवत्स्वमतेऽपि मनस इन्द्रियत्वमवेति सूचितम् । अत एव 'इन्द्रियाणां मनश्चास्मि' इति गीताभाष्ये 'इन्द्रियाणामेकादशानां मनश्चास्मि इत्युक्ति , ‘त इन्द्रियाणि' इत्यादिसूत्रभाष्ये स्मृतौ त्वेकादशेन्द्रियाणीति मनोऽपीन्द्रियत्वेन श्रोत्रादिवत्संगृह्यते' इत्युक्तिः । तत्रैव तद्विवरणब्रह्मविद्याभरणे स्मृतौ त्वेकादशेति -" इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः' इत्यादी इत्यायुक्तिः एवं भामत्याधुक्तिश्च संगच्छते । अतो मनस इन्द्रियत्वं शङ्कराचार्याणामप्यभिमतमिति ॥