SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ सरः] प्रवेशाप्ययश्रुत्यौराशयः वागादीन्द्रियत्वसाधनाय प्रतिबन्दिश्व 445 तत्वमुक्ताकलापः रूपादिज्ञानसिद्धौ यदि करणतया कल्पनं सर्वार्थसिद्धिः रूपादीति । अयं भावः - यद्यागमः प्रधानीक्रियेत तदा 'इन्द्रि । याणि दशैकं च' इति व्यवतिष्ठेत । यदा तु क्रिया करणपूआनन्ददायिनी मागमपक्षे स्वपक्षासीद्धि (र्नस्य) स्स्यादित्याह -- यद्यागम इति । अनुमानप क्षेऽपि प्रतिबन्दिमुखेन स्वमतसिद्धिमाह – यदा तु इत्यादिना । सुखा भावप्रकाशाः * इन्द्रियाणीत्यादि - अत्र 'पञ्चचेन्द्रियगोचराः ' इति द्वितीयपादे चशब्दाव्यवहितपूर्ववर्तिपञ्चपदार्थे इन्द्रियगोचरपदार्थान्वयवत् प्रथमपादे एकपदार्थेऽपि इन्द्रियपदार्थान्वयः प्रतिपिपादयिषित इति प्रतीयते । यदि मनस इन्द्रियत्वं नाभिप्रैष्यद्भगवान् तदा 'इन्द्रियाणि दश मनः इत्येवावक्ष्यत् ; न च तथोवाच ! अतो मनस इन्द्रियत्व - मनेन सिध्यति । श्रुतिषु मनस इन्द्रियेभ्यः पृथनिर्देशेनानिन्द्रियत्वव्यामोहं शमयितुं ‘एकादशेन्द्रियाणि' इत्याद्युक्तौ श्रुतिविरुद्धया स्मृत्या नाभीष्टसिद्धिरिति शङ्का स्यात्, तदपनोदनाय 'इन्द्रियाणि दशैकं च' इत्युक्तिः । अत्र मनसः प्राधान्यवोधनाय भिन्नराशीकरणं तेन च मनसः प्राधान्यविवक्षया श्रुतिषु पृथनिर्देशः उपपद्यते इति न ततोऽनिन्द्रियत्वसिद्धिः। एतदेवाभिप्रेत्य शङ्कराचार्यैः गीताभाष्ये 'इन्द्रि याणि दश; श्रोत्रादीनि पञ्च बुद्धयुत्पादकत्वाद्बुद्धीन्द्रियाणि; वाक्पाण्यादीनि पञ्च कर्मनिर्वर्तकत्वात् कर्मेन्द्रियाणि तानि दश एकं च ; किं तत् ? ;
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy