________________
414
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्व्य
सर्वार्थसिद्धिः तस्मादाप्यायनपरत्वमेव तत्र वाच्यम् एवमन्यत्रापि । 'अग्निवाग्भूत्वा मुखं प्राविशत् आदित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत्' इत्यादिषु तत्तद्देवताधिष्टाने तात्पर्यम् । 'अग्निं वागप्येति' इत्यप्ययश्रुतिश्च अधिष्ठातृदेवतांशापक्रमणपरेत्यभाष्यत । 'ओषधीर्लोमानि' इत्यादिना अनपियद्भिरपि लोमादिभिस्सह पाठात् ॥ ३५ ॥ इन्द्रियाणां भौतिकत्वमङ्गः तदाहङ्कारिकत्वं श्रुत्याद्यर्थनिर्वाहश्च
अथ 'मनष्षष्ठान्येवेद्रियाणिमूवागादिधिन्द्रियशब्दो भाक्तः' इति वदतः प्रतिबन्दिपूर्वकेण प्रमाणेन प्रतिक्षिपति
आनन्ददायिनी इति लयश्च श्रूयते इत्यत्राह-अन्यत्रापीति । देवताप्रवेशाक्रमणपरत्वात् नोत्पत्तिलयपरत्वमित्यर्थः ॥ ३५ ॥
इन्द्रियाणां भौतिकत्वभङ्गः तदाहङ्कारिकत्वं श्रुत्याद्यर्थनिर्वाहश्च
प्रसङ्गसंगतिमाह --अथेति । अवसरसङ्गतिरित्यन्ये । नन्वनुमानासिद्धिश्चान्यथासिद्धिश्च समे इत्युक्तं ; तावता न सङ्ख्याविशेषसमर्थनं उभयथाऽपि व्याप्तयभावात् इत्यत्राह-~-अयं भाव इति । इन्द्रियाणामतीन्द्रियत्वेन तत्रानुमानागमयोरेव प्रमाणतया पर्यवसानात् प्रथम