________________
सरः] लयश्रुतौ सप्तमीवहुवचनोपपत्तिः भौतिकवेक्तिभावः न्यायानिदेशश्च ++3
तत्वमुक्ताकलापः चाक्षेषु च स्यात् । भूतैराप्यायितत्वात् क्वचिदुपचरिता भौतिकत्वोक्तिरेषां अनाप्तेजोमयत्वं श्रुतिरपि हि मनःप्राणवाचामुवाच ॥ ३५ ॥
सर्वार्थसिद्धिः इत्यारभ्य 'वाय्वात्मकं स्पर्शनमामनन्ति' इत्युच्यते 'नमः श्रोत्रं च तन्मयम्' इत्यादि च । अतः आहङ्कारिकत्ववाक्यं परम्परया नेयमित्यत्राह-भूतैरिति । तदिदं व्यवस्थापितं वेदार्थसंग्रहे 'भूतैस्त्वाप्यायनं महाभारत उच्यते' इति । इममेव न्यायं 'अन्नमयं हि सौम्य मनः आपोमयः प्राणः तेजोमयी वाक्' इत्यादिष्वपि योजयितुमाह-अन्नाप्लेजोमयत्वमिति । न खलु हैतुकैरपि मनसः पार्थिवत्वं कल्प्यते वायुरूपस्य प्राणस्याप्यत्वम् !
आनन्ददायिनी तदिदमिति । ननु महाभारतवचनादाप्यायनमस्तु ; उपबृंहणान्तराद्भौतिकत्वं चास्त्विति चेत् ; न; भौतिकत्वोपबृंहणस्य आहङ्कारिकत्वश्रुतेश्चान्यतरस्यान्यथासिद्धौ वाच्यायां श्रुतेः प्राबल्यात् तदनुरोधादुपबृंहणं व्यवस्थाप्यम् । किंच 'मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ' इत्यादिन्यायेनापि महाभारतवचनानुसारित्वमिति भावः । तत्र युक्तिमाह-न खल्विति । अन्यपरत्वस्य परेणावश्यं वाच्यत्वादित्यर्थः । ननु ‘अग्निर्वाग्भूत्वा' इत्यादिना उत्पत्तिः ; 'आनं वागप्येति