SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ 442 सर्वार्थसिद्धिसहिततत्वमुक्ताकलापः जडव्य तत्वमुक्ताकलापः नो चेत् पृथ्व्यादिवाक्येष्विव हि लयपदं व्योम्नि सर्वार्थसिद्धिः अतस्तन्मात्रान्तराणामपि तदवस्थापच्या तत्तदंशभेदविवक्षया बहुवचनोपपत्तिः । अतः 'तन्मात्राणि भूतादौ लीयन्ते' इत्यपि बहुवचनं गतार्थम् । अत्रैवं व्याख्यातं-इन्द्रियाप्यायकभूतांशानां सर्वेषामाकाशतापन्नत्वादाकाशस्यैवेन्द्रियसंसर्ग आसीत् । पञ्चानामपि भूतानां शब्दतन्मात्रापन्नत्वादिन्द्रियाणि शब्दतन्मात्रांशभेदेषु संसृष्टान्यासन् । एवमनभ्युपगमे वाक्यवैरूप्यदोषं व्यनक्ति-नोचेदिति । ननु 'श्रोत्रं नभो घ्राणमुक्तं पृथिव्याः' आनन्ददायिनी शब्दतन्मात्रस्यैकत्वात् इत्यत आह-अत इति । लयक्रमतः तन्मात्रान्तराणामपि शव्दतन्मात्रतापत्तौ तत्तदंशभेदस्य तत्र सत्त्वादित्यर्थः । एवं प्रथमाबहुवचनमप्यनुपपन्नमित्याह -अतस्तन्मात्राणीति । अंशभेदविवक्षात इत्यर्थः । ननु आकाशस्य प्राक्तनसंबन्धापेक्षया इन्द्रियैम्संबन्धान्तरं वाच्यं ; नचाप्यायकभूतानामाकाशतापत्तिमात्रेण तत्संभवतीत्याह--- अत्रैवमिति । भाष्ये इति शेषः । 'आप्यायकानां भूतानामिन्द्रियैस्संबन्धविशेषोऽस्ति । इन्द्रियसंबन्धविशेषवतां भूतानामा. काशतापन्नत्वे तत्र तत्संबन्धोऽप्याकाशे पर्यवसितः। तथा तत्संबन्धापन्नस्यैवाकाशस्य तन्मात्रतापन्नत्वे तस्संबन्धाश्रयतन्मात्रसं(तत्सं)बन्ध इन्द्रियाणामासीदित्यर्थः' इति व्याख्यातमित्यर्थः । यद्वा उक्तार्थे अभियुक्तसंमतिमाह-अत्रैवमिति । आहङ्कारिकत्वेऽप्युपबृंहणविरोधमाशङ्कय परिहरति --- ननु श्रोत्रं नभ इति । परिहारप्रकारमाह -
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy