________________
सरः]श्रौतेन्द्रियैकादशत्वाबाधः तक्षणान्तरनिरासः स्वननलक्षणं सांख्यैककण्ठ्यंच 151
सर्वार्थसिद्धिः
णके यथाशब्दं व्यवस्थापनात् । सांख्यैरप्यत्र शास्त्रमेवानुसृतम् - सात्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् ।
इति । साधितं च सप्तत्यधिकरणसिद्धान्ते हस्तादीनामपि आनन्ददायिनी
तथा भूतानामपि प्रकृतिकोटिप्रवेशे 'अष्टौ प्रकृतय' इति विरोधात् । तथाच तत्वान्तरप्रकृतित्वं वाच्यमिति राजसाहङ्कारस्य प्रकृतित्वाभावेन विकारकोटिप्रवेशप्रसङ्गः । नचाहङ्कारजातीयस्य प्रकृतित्वात् तस्यापि प्रकृत्यन्तर्भावः ; वैपरीत्यप्रसङ्गात् इति चेत्; अत्राहुः - - सात्विकता - मसयोरिन्द्रियभूतारम्भकयो राजसस्य प्रकृतित्वं (नाम) न निमित्त (त्वमात्रं ;) तया ; किंतु द्विधा विभक्त उभयत्र संबद्धस्सन् उपादानीभू (यैव ) ततयैव ( सहकार ) यथा शरीरोत्पत्तौ (पञ्चीकृतानां तदंशानां ) पृथिव्या इतरभूतानि ; तथा पृथ्व्या अण्डाद्युत्पत्तौ । नच सहकारित्वव्यपदेशो न स्यात् स्याच्च पादानत्वव्यपदेश इति वाच्यम्; यथा पञ्चीकरणस्थले इतरभूतानां स्वल्पतया नियतैक भूतत्व (भूतत्वादि) व्यपदेशः तथा सहकारित्वेनैवात्रापि व्यपदेश: ; अन्यथा कार्ये दण्डादेरिवानुवृत्त्ययोगाद्रजोगुणः तत्कार्य चलनादिक्रिया च न स्यादिति । अन्ये तु निमित्तत्वमेव राजसाहङ्कारस्य ; नच विकारकोटिपरिगणनापत्तिः ; तत्वान्तरोपादाननिष्ठतत्वविभाजकघर्मावच्छिन्नत्वमुपादानत्वम् ; तद्भिन्नतत्व विभाजकधर्मावच्छिन्नत्वं विकारत्वमिति विवक्षितत्वात् ! उपष्टम्भकगतेनापि रजसा चलनाद्युपपत्तिः यथा स्वर्णतैजसत्वमते गुरुत्वादीत्याहुः । सात्विकःसत्वगुणेन व्यवह्रियमाणः - सत्वगुणाश्रय इति यावत् । वैकृताहङ्कारःसात्विकाहङ्कारः । सात्विकान्येकादशेन्द्रियाणि सात्विकाहङ्कारादुत्पद्यन्त इत्यर्थः । एकादशकः -- एकादशसंख्यया परिमितः; 'संख्याया
I
29*