________________
सरः] पूर्वोक्तव्याभिचारस्थापनं श्रोत्रभौतिकन्वनिरामःयोगसमातेः प्रत्यनुमानानेिच 459
सर्वार्थसिद्धिः कान्तिकम् । किंचात्र लोकसिद्धनयनबुद्धदादिपक्षीकारे रूपादिविशेषस्तेषां पार्थिवत्वसिद्धेः कालात्ययापदेशः। अनुमानतस्त्विन्द्रियसिद्धिरशक्येति वक्ष्यते । सामान्यतो दृष्टादधिष्ठानातिरिक्तन्द्रियसिद्धावपि तदाहङ्कारिकत्वं श्रौतमवाध्यम् । 'इन्द्रियाण्यहङ्कारविशेषाः' इति हैरण्यगर्भोक्तिरपि तदाहङ्कारिकत्वानुगुणा । अतः श्रुतिसिद्धपक्षीकारेऽपि बाध एव । प्रतिप्रयोगाश्च-वाह्येन्द्रियाण्यभौतिकानि इन्द्रियत्वात् मनोवत् । प्रत्येकपक्षीकारेण वा चक्षुरतजसमित्यादि । तावेव हेतुदृष्टान्तो। परस्परं वा घ्राणादयो दृष्टान्ताः । विपक्षे बाधकसदसद्भावश्च समः; यत्किञ्चिदृष्टान्तमात्रानुसारेण प्रसङ्गस्य सुलभत्वादिति । परोक्ता
आनन्ददायिनी क्षसिद्धस्य पक्षत्वमुतानुमानसिद्धम्य आहोम्वित् श्रुतिसिद्धस्य इति विकल्पमभिप्रेत्य आये दोषमाह-लोकसिद्धेति । द्वितीय आहअनुमानत इति । वक्ष्यते-इन्द्रियाणामेकादशत्वसाधनावसर इत्यर्थः । सामान्यत इति-रूपादिज्ञानं पक्षीकृत्य क्रिया क(का)रणजन्या इति सामान्यतो दृष्टादित्यर्थः । अपिशब्देनाधिष्ठानातिरिक्ततया सिद्धिर्न शक्येति सूच्यते । तदिति-तथाच आहङ्कारिकत्व (विरोधी न भवतीत्यर्थः) श्रुत्या तैजसत्वाद्यनुमानबाध इति भावः । योगशास्त्रे अहङ्कारत्वमिन्द्रियाणामुक्तमिति तदाहङ्कारिकत्वकथनं तेन विरुद्धमित्यत आहइन्द्रियाणीति । कार्यकारणयोस्तन्तवः पट इत्यभेदव्यपदेशदर्शनादाहङ्कारिकत्वविरोधी तद्व्यपदेशो न भवतीत्यर्थः । तृतीय दूषयति-अत इति । धमिग्राहकमानबाध इत्यर्थः । परस्परमिति-चक्षुःपक्षकानुमाने घ्राणं घ्राणपक्षके चक्षुरादिक्रमेण परस्परपक्षकानुमाने परस्परं दृष्टान्ता