________________
440
सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
तत्वमुक्ताकलापः अक्षाहङ्कारिकत्वं श्रुतिपथनिपुणैर्घोषितं नैव बाध्यम् ॥ ३४॥ तन्मात्रेष्विन्द्रियाणां श्रुतिरिह न लयं वक्ति
सर्वार्थसिद्धिः नुमानानामागमवाधमभिप्रेत्याह-अक्षाहङ्कारिकत्वमिति । श्रुतिपथनिपुणैः-मनुपराशरपाराशर्यादिभिः। घोषितं-बहुषु प्रदेशेषु स्पष्टोक्तम् । नैव बाध्यं-अशक्तैरनुमानैः अन्यपरैश्च वाक्यैरिति शेषः ॥३४॥
ननु इन्द्रियाणि तन्मात्रेष्विति श्रुत्या भौतिकत्वमीषां भातीत्यत्राह-तन्मात्रेष्विति । पूर्वापरपर्यायेष्विव आकाशेन्द्रियपर्याययोः लयो न पठ्यते । नचात्रानुषङ्गः; सति गत्यन्तरेऽध्याहारवत्तस्याप्ययोगात् । अन्यथा द्वितीयादिषु च सर्वेषु
आनन्ददायिनी इत्यर्थः । अन्यपरैरिति-भूताप्यायितत्वमात्रपरित्यर्थः ॥ ३४ ॥
आक्षेपिकी संगतिमाह--नन्विति । तन्मात्रेष्विति श्रुत्यति । कार्यस्योपादान एव लयंनियमादिति भावः-पूर्वापरेति । 'पृथिव्यप्सु लीयते' इत्यारभ्य · वायुराकाशे प्रलीयते' इति पठित्वा अनन्तरं आकाश इन्द्रियेषु इन्द्रियाणि तन्मात्रेषु तन्मात्राणि भूतादौ लीयन्ते इति पठ्यते ; सर्वत्र लयपदं पठित्वा मध्ययोराकाशन्द्रियपर्याययोर्लयपदं न पठ्यत इत्यर्थः । अन्यथेति--- अत्र प्रकरणे अनुषङ्गस्याभिप्रेतत्वे इत्यर्थः । ननु श्रूयमाणस्थले अनुषङ्गासंभावात् यत्र न श्रूयते तत्रानुषङ्गोऽस्तु