________________
438
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जड द्रव्य
सर्वार्थसिद्धिः तैजसत्वानभ्युपगमात् । दन्तान्तस्तोयदृष्टान्तश्चायुक्तः विषयसंस्कारकस्य व्यञ्जकत्वायोगात् । न हि ग्रस्यमानं किञ्चिदसं स्कृत्य दन्तान्तस्तोयस्योपकारकत्वम् । तावता च रसव्यञ्जकत्वे रसगन्धाधुद्भवहेतोरग्नयादेरपि किं तन्न स्यात् ? वायुश्च वेगेनाभिनन् सूक्ष्मान् सलिलकणानन्तश्शरीरं प्रवेशयति । शैत्यं तु तेषां त्वगिन्द्रियप्रवेशवैषम्याद्विशदमनुभूयते । तावता स्पर्शव्यञ्जकत्वे गन्धोपहारकस्य तस्य तद्वयञ्जकत्वमपि किं नेष्यते ? तथाच घ्राणपार्थिवत्वानुमानं दुस्स्थमिति । एवं चतुर्णा भौतिकत्वासिद्धौ तदृष्टान्तेन श्रोत्रभौतिकत्वानुमानान्यपि छिन्नमूलानि । आकाश इन्द्रियारम्भक इति च अयुक्तं; श्रोत्रस्य त्वन्मते तदारब्धत्वाभावात् । भूतत्वादिति च घटादिभिरनै
आनन्ददायिनी विषयसंस्कारक:-विषये (द्रव्ये) ग्रस्यमाने रसाधुत्पादकः । विषयसंस्कारकत्वमुपपादयति- नहीति । ननु रसाभिव्यञ्जकत्वं रसाभिव्यक्तिप्रयोजकत्वम् ; तच्च रसोत्पादोपलम्भजनकसाधारणमिति नासिद्धिरित्यत आह—तावता चेति । तथाच पार्थिवत्वसाधकहेतोस्तत्र व्यभिचार इति भावः । त्वचो वायवीयत्वसाधकहेतावपि दृष्टान्तवैषम्यमाहवायुश्चेति । उपलब्धि (मात्र) प्रयोजकत्व(मात्र)विवक्षायां दोषमाहतावता स्पर्शव्यञ्जकत्वे इति । त(त्र)स्य वायोस्तत्र पार्थिवत्वसाधक. हेतोर्व्यभिचार इति भावः । श्रोत्रस्य भौतिकत्वसाधकानुमानानां व्याप्यत्वासिद्धिरूपं साधारण दोषमाह-एवं चतुर्णामिति । आकाश इन्द्रियारम्भकः इत्यनुमाने श्रोत्रस्य तन्मते नित्यतया बाधो व्यभिचारोऽपि दोष इत्याह-आकाश इति । किञ्च चक्षुराद्यनुमानेषु प्रत्य