________________
सर
पूर्वोक्तहेतोःद्वितीयविकोऽसिद्धिः विक यान्तरे भिचारच
437
सर्वार्थसिद्धिः अञ्जनस्य शक्ये प्रतिबन्धनिवर्तकत्वमात्रमिति चेन्न; अशक्ये गूढनिधिदर्शनादो शक्त्याधानेन सहकारित्वदृष्टः। शक्त्याधायकं हि सहकारीति चेन ; दीपादावपि तथा क्लुप्तिप्रसङ्गात् । सत्तयैव हेतुत्वं तत्र दृष्टमिति चेत् । अत्रापि तथास्तु अविशेषात् । येच तत्तदिन्द्रियदोपैरपि रूपादिधीरस्तीति मत्वा
शरीरयोगे सत्येव साक्षात्प्रमितिसाधनम् । इति लक्षयन्ति; तन्मते तत्तद्दोषेरप्यनेकान्त्यम् । तेषां
आनन्ददायिनी तृप्रमेययोर्न स्वरूपमात्रग्रहसहकारित्वं; रसादिग्रहं प्रत्यपि सहकारित्वात् । रसादिग्रहासहकारित्वे सति रूपग्रहसहकारित्वस्य विवक्षितत्वात् ; तथाच न व्यभिचार इति चेन्न ; दृष्टान्तासिद्धया तथा विवक्षाया असंभवात् । तेषामपि सन्निकर्षतया स्वनिष्ठस्पर्शादिव्यञ्जकत्वादिति भावः । इदञ्च अवधारणाविवक्षायां । तद्विवक्षायां त्वञ्जनादिद्रव्यसंस्कारकद्रव्य दोषविशेषे च व्यभिचारो बोध्यः । अञ्जनस्येति–तथाच उपलब्धिसाधकत्वाभावान्न व्यभिचार इति भावः । दीपादावपीति-तस्य शक्तयाधायकत्वेन सहकारित्वाभावप्रसङ्गादित्यर्थः । सत्तयैवेति-दीपादीनां चक्षुरादौ शक्तयाधायकता नास्ति (स्तीत्यर्थः।) स्वरूपेण हेतुत्वादिति भावः । अत्रापीति-अञ्जनादावपि स्वरूपेण हेतुताक्लप्तिरस्तत्यिर्थः । येचेति-नयनगतपित्तद्रव्येण शङ्ख पित्तरूपस्योपलम्भात् रसनगतदोषेण क्षीरादौ तिक्तताया उपलम्भात् तद्यावर्तनाय इन्द्रियलक्षणे प्रमितिविशेषणं तार्किकर (क्षणकृदादयः प्रतिक्षिपन्ति) क्षादावुक्तमित्यर्थः । अनैकान्त्यमेवोपपादयति-तेषामिति ।