________________
432
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलाप
[जद्रव्य
तत्वमुक्ताकलापः अन्यथाऽतिप्रसङ्गात् ॥३३॥ नेत्रादेर्दीपिकादोरेव नियमयुतं तैजसत्वादि
सर्वार्थसिद्धिः व्यनक्ति-अन्यथेति । न हि धूमादिना यदाकदाचिद्भवितव्यमित्यस्य कादाचित्कत्वं नियम्यते ! तथा सति गर्दभादेरनन्तरं तदुपलब्धिर्वा सामग्रथनन्तरमनुपलब्धिर्वा स्यादिति ॥
इति त्रिगुणपरीक्षायां कार्यकारणभावभङ्गनिरासः.
प्रकृतस्य प्रकृत्यादिकारणवादस्य प्रतिपक्षा निरस्ताः । तत्र देहादिवदिन्द्रियाणामपि भौतिकत्वं वदतः प्रतिवक्तिनेत्रादेरिति । नियमयुतं- सावधारणं ; रूपादिषु मध्ये रसाद्य
आनन्ददायिनी नहीति----(धूमादिना) यदाकदाचिद्भवितव्यमित्येतावता नियतकारणानङ्गीकारे तस्मादनन्तरमनेन भाव्यमिति कादाचित्कत्वमुत्पत्ति(त्तिर्न)न नियन्तुं शक्यमित्यर्थः ।।
इति त्रिगुणपरीक्षायां कार्यकारणभावभङ्गनिरासः
अवसरसंगतिमाह-प्रकृत्येति । रसाद्यग्राहकत्व इति-आत्मनि