________________
सरः]
मुखभेदनिबन्धननित्यनिदर्शनेन च निर्हेतुकत्वत्वोद्यपः रेहार:
431
तत्वमुक्ताकलापः
भवेन्नित्यता तुच्छता वा? कादाचित्कस्वभावाद्यदि
न नियमनात
सर्वार्थसिद्धिः
द्वितीये कथमतत्स्वभावः कारणसहस्रेणापि तत्स्वभावतां नेतुं शक्यः ? स्वभावस्य च हेतुमत्त्वे निर्हेतुकमिति किञ्चिन्न स्यात् । अतो नित्यस्वभाववन्नियतकालस्वभावता स्यादिति शङ्कते - कादाचित्केति । कादाचित्कस्वभावत्वेऽपि हेत्वधीनतां तत एव नित्यस्वभाववैषम्यं चाभिप्रेत्याह-न नियमनादिति । न हि यतः कुतश्चिदनन्तरमनेन भवितव्यमिति कादाचित्कत्वं ! अनियमादृष्टेः; अस्मादनन्तरमेवेदमिति व्यवस्थादृष्टेरित्यर्थः । उक्तनियमानभ्युपगमे सर्वत्र सर्वदा सर्वतः कार्यं स्यादिति तर्कबाधं
आनन्ददायिनी
प्रसङ्गात् नचेष्टापत्तिः भवद्भिर्नित्यानित्यव्यवस्थाकरणादिति भावः । स्वभावत्वेऽपि कार्यस्य हेत्वधीनता दर्शनबलादभ्युपेयते न तु नित्यस्य ; तदभावात्; अन्यथा कार्यस्य धूमादेर्यतः कुतश्चिगर्दभादिजातीयादनन्तरमप्युपलब्धिरुत्पत्तिस्स्यात् । वह्न्यादिघटितसामग्रयनन्तरमपि कदाचिदनुपब्धिस्स्यात् ; नचेष्टापत्तिः; धूमादेर्वयाद्यनन्तरमेव नियतोपलम्भविरोधात् । तदर्थिनो नियमेन तत्रैव प्रवृत्तेः । स्वक्रियाव्याघातादेरपि प्रसङ्गान्नियतावधिकत्वमङ्गीकरणीयमित्याह – स्वभावत्वेऽपि इत्यादिना ।