________________
430
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः वोऽपि कुर्यात् । कार्ये निर्हेतुकं चेत् कथमिव न
सर्वार्थसिद्धिः
नैरपेक्ष्यं स्यादित्यत्राह - कार्यं निर्हेतुकं चेदिति । विषमं निदर्शनमित्याकूतम् । तदेवानिष्टप्रसङ्गेन व्यनक्ति-कथमिति । निरवधित्वे गत्यन्तरं न भवतीति भाव: । कार्यस्य नित्यत्वं सतोऽसतो वेति विकल्पे पूर्वत्र नित्यता अन्यत्र तुच्छता स्यादिति विभाज्यम् । पूर्वावधिवदुत्तरावधेरप्य सत्कल्पत्वान्नित्यत्वम् । न हि इतः परं न भवितव्यमनेनेत्यपि नियमोऽस्ति । ननु कादाचित्कत्वं स्वभावो न वा ? आये नित्यस्वभाववनिरपेक्ष एव स्यात् ।
1
आनन्ददायिनी
नित्यस्वभावस्यापि तत्सापेक्षता स्यादिति भावः । तदेवेति -- निदर्शनवैषम्यमेवेत्यर्थः । कार्यस्य नित्यत्वं विभाज्यमित्यन्वयः । विभाज्यं - विवेचनयम् । नन्वेतावता पूर्वावधिराहित्यमस्तु ; उत्तरावधिवैधुर्यरूप नित्यत्वं कुत इत्यत्राह - पूर्वावधिवदिति । असत्कल्पत्वमविरोधित्वमित्यर्थः । असत्कल्पत्वमेवोपपादयति-नहीति । उत्तरावधित्वाभावे सर्वस्याप्युत्तरावधिवैधुर्ये (ण) तदनन्तरमित्यभावादित्यर्थः । यद्वा ननु · ध्वंस उत्तरावधिरस्त्वित्यत्राह --- न हीति । ध्वंसस्याप्युक्तरीत्या उत्तरावधिवैधुर्येणानादित्वात्सर्वस्याप्युत्तरावधित्वानुपपत्तेरित्यर्थः । नित्यस्वभावव
――
दिति पूर्वत्र स्वभावत्वाविशेषादहेतुकत्वशङ्का ; संप्रति स्वभावत्वव्याघाताधीनेति वैषम्यम् । स्व (स्व) भावस्य चेति — सर्वस्यापि सहेतुकत्व -