________________
सरः ]
इन्द्रियभौतिकत्वे परोक्त नुमानानुवादः
तत्वमुक्ताकलापः
433
साध्ये रूपादिग्राहकत्वं
सर्वार्थसिद्धिः
ग्राहकत्वेन विशेषितामित्यर्थः । चक्षुस्तैजसं रसाद्यग्राहकत्वे सति रूपग्राहकद्रव्यत्वात् दीपवत् इति । एवं त्वगिन्द्रियं वायवीयं स्पर्शादिषु मध्ये स्पर्शस्यैव ग्राहकत्वात् अङ्गसङ्गिसलिलशैत्याभिव्यञ्जकवायुवत् । रसनस्याप्यत्वे रसस्यैवेति दन्तान्तस्तोयदृष्टान्तः । घ्राणस्य पार्थिवत्वे गन्धस्यैवेति कुङ्कुमगन्धाभिव्यञ्जकनिम्वत्वगादि निदर्शनम् । श्रोत्रस्य तु नभस्त्वे श्रोत्रं गुणावान्तरजात्या स्वगुणसजातीयगुणग्राहकं बाह्येन्द्रियत्वात् चक्षुरादिवत् इति । शब्दो गुणावान्तरजात्या खसजातीयगुणवतेन्द्रियेण गृह्यते वहिरिन्द्रियव्यवस्थापकगुणत्वाद्रूपादिवत् । शब्दो भूतेन्द्रियग्राह्य इति
आनन्ददायिनी
व्यभिचारवारणाय रसाद्यग्राहकत्व इति । परमाणौ व्यभिचारवारणाय रूपग्राहकत्वादिति । सन्निकर्षादौ व्यभिचारवारणाय द्रव्यत्वा दिति । घटादिग्राहकतयाऽसिद्धिप्रसङ्गादत्रापि रूपादिष्विति बोध्यम् । तदर्थश्च -- रूपादिषु पञ्चसु मध्ये इति । अत्र ग्राहकत्वं लौकिकप्रत्यक्षजनकत्वं; तेनोपनयादिवशाद्र (दिना २) सादिग्राहकतया नासिद्धिः । एवमुत्तरानुमानेष्वपि द्रष्टव्यम् । रसस्यैवेति — रसस्यैव ग्राहकत्वं हेतुरित्यर्थः । एवं गन्धस्यैवेत्यादावपि बोध्यम् । निदर्शनं -- दृष्टान्तः । बहिरिन्द्रियेति इन्द्रियपञ्चके स्वग्राह केन्द्रियेतरेन्द्रियनिरूपितस्वग्राह केन्द्रियनिष्ठ भेदानुमितिहेतुसाक्षात्कारविषयगुणत्वादित्यर्थः । तेन ' इन्द्रियव्यवस्थापकत्वं इन्द्रियसाधकत्वं; न च शब्दजन्यत्वामिन्द्रियस्य ! इन्द्रि
28
SARVARTHA.