________________
सरः
चार्वाकस्य स्वशास्त्रादिविरुद्धभाषिता कारणत्वदूषणान्तरनिरासश्च
+27
तत्वमुक्ताकलापः कादाचित्कस्य कालावधिनियतिकरं पूर्वसत् कारणं
सर्वार्थसिद्धिः तत्वावधारणार्थ वा वादे किं न प्रवर्तसे । स्वयं वा मानतर्काभ्यां किं न किञ्चित्परीक्षसे ॥३२॥
ननु परिवेषा(दिषु)दौ नियत(पूर्व) पूर्वसत् किञ्चिन्न दृश्यते । न च घटादिदृष्टान्तेन तदनुमेयं ; विपरिवर्तस्य दुवारत्वात् । अतो दृश्यमाना अप्यवधयः केषुचिद्रसोत्पत्तौ रूपादिवद्यदृच्छासिद्धा इत्यत्राह—कादाचित्कस्येति । अयं भावः-यदि परिवेषादीनामपि कादाचित्कत्वं दृष्टं तत्र निपुणं निरूपयतां देशकालादृष्टविशेषादातपादिकारणविशेषस्सिद्धः। तदनुपलम्भेऽपि संदिग्ध
आनन्ददायिनी क्षुन्निवर्तनसाधनत्वाभावे ह्यविशेषात् सर्वमुपादीयेत परित्यज्येत वा । तथा न क्रियते (इति) । ततश्च स्वक्रियाविरोध इति भावः ॥ ३२ ॥
____ आक्षेपिकी संगतिमाह-नन्विति । आदिशब्देन क्षणरुच्यादिसंग्रहः । नियतपूर्वमिति-यद्यपि सूर्याम्बुदादयस्सन्त्येव, तथाऽपि न तेषामवधित्वं, तत्सत्त्वेऽपि तदभावादिति भावः । विपरिवर्तस्येत्यादि-- तद्दष्टान्तेन घटादावेवावधिनैरपेक्ष्यानुमानस्य संभवादिति भावः । यदृच्छासिद्धा इति--अकारणमिति भावः । प्रतिज्ञामात्रं नार्थसाधकमित्यत्राहअयं भाव इति । आतपादीत्यादिशब्देन पृथिवीपीतभागादिपरिग्रहः । तदनुपलम्भेऽपीति-नच योग्यानुपलम्भादभावनिर्णयः भर्जनकपालस्थवह्निक(कार)णानामिव तेजःक(कार)णानामप्यनुपलम्भसंभवादिति भावः ।