________________
426
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः गुरुशिष्यादिवाक्यानां परबोधार्थता यतः ।। तेभ्यश्चतन्यमित्यादि वदता गुरुणा स्वयम् । किण्वादिभ्यः प्रसिध्यन्ती मदशक्तिर्निदर्शिता ।। . प्रत्यक्षाल्लोकशब्दोक्तादधिकं च तदायतम् । अभाष्यत भवत्पूर्वैः प्रत्यक्षं चार्थसाधकम् ॥ अर्थकामौ पुमौं च दृष्टोपायैरु (पायावु) (पाधी उ) दीरिती। प्रीयसे दूयसे च त्वं बिभेषि च ततस्ततः ।। इष्टं प्राप्तुमनिष्टं च निवर्तयितुमुद्यतः । तसिद्धौ चरितार्थस्त्वं लोकवतिक न मन्यसे ।। बुभुक्षुरन्नमादत्से श्वभक्ष्यादि जहासि च । परोक्तया प्रतिपद्यार्थ प्रतिब्रूषे जिगीषया ॥
आनन्ददायिनी स्त्रभूतसूत्रमारभ्येत्यर्थः । तत्र हेतुमाह-गुरुशिष्येति । परबोधनार्थत्वं परप्रतिपत्तिप्रयोजनकत्वं ; तच्च साध्यसाधनभावनिबन्धनमिति आवः । त्वयैव लोक्रसिद्धकार्यकारणभावस्य दृष्टान्तीकरणादपि विरोध इत्याहकिण्वादिभ्य इति । तदीयभाष्यविरोधमप्याह-प्रत्यक्षादिति । अधिकं -अधिरुपरिभावार्थः । प्रत्यक्षस्यो(क्षाद)परिभूतं-फलभूतमित्यर्थः । दृष्टोपाधी-अन्वयव्यतिरेकसिद्धकारणकौ । ततस्तत इति-- प्रीतिदुःखभयहेतुभ्य इत्यर्थः । उद्यतः– यत्नवान् । तत्सिद्धौ--इष्टप्राप्तयनिष्टपरिहारसिद्धौ । चरितार्थः--प्राप्तप्रयोजनकः । ततः किमित्यत आह-लोकवदिति । पूर्वोक्तानां सर्वेषां साध्यसाधनभावप्रतिपत्तिनिबन्धनत्वात् लोकवत् किमर्थं तन्नाभ्युपगच्छसीत्यर्थः । बुभुक्षुरिति