________________
सरः
दूषणान्तरनिरासः सत्त्वदृषणस्यासत्त्वेऽपि तुल्यातच
सर्वार्थसिद्धिः इति । अत्र 'तदसत्ततः' इत्यत्र स्थान ' *सदिदं ततः इति पाठ्यम् । विशेषणतया उपलक्षणतया वा सत्तासंबन्धिनि नासत्त्वारापश्शक्यत इति ।
सत्त्वं च सदसद्वेति विकल्प्यानिष्टकल्पन । असत्त्वं सदसद्वेति विकल्प्योत्तरमूह्यताम् ॥ स्वक्रियादिविरोधश्च सूत्रप्रभृति दुस्तरः ।
आनन्ददायिनी न भवतीति नसमासः । तथा सत्त्वम्याप्रवेशादसतः कारणत्वं तत एवायातमित्यर्थः । त्वदुक्तमेव · तदसत्ततः' इत्यत्र तदसदिति स्थाने सदिदमिति पदप्रक्षेपण तव दूषणं भवतीत्याह-अत्रेति । इदं (कारणं) तत् सदेवेत्यर्थः । तदेवोपपादयति -- विशेषणतयति । उभयथाऽपि सत्ताश्रयत्वात्कारणस्येति भावः । ननु सत्तायास्सत्ताश्रयत्वेऽनवस्था । तदना श्रयत्वे तस्या असत्वे(न कारणस्याप्यसत्त्वमित्यत्राह-सत्त्वं चेति । सदसद्वति-कारणस्यासत्त्वं सन्न वा ? आद्यऽनवस्था, सत्त्वान्तरापत्तिश्च । असत्त्वस्यासत्त्वे सत्त्वाश्रयत्वेनाभिमतभ्यासत्त्वशून्यतया सर्वसत्त्वं स्यात् । द्वितीये तु असत्त्वस्यैवासत्त्वाभावरूपसत्त्वाश्रयतया (त्वात् ) सत्त्वं ; अवर्जनीयतया तद्वदेव सर्वस्यासत्त्वमिति भावः । पूर्वोक्तं स्वक्रियाव्याघातं विशदमाह-स्वक्रियादीति । सूत्रप्रभृति---त्वदीयशा
भावप्रकाशः * सदिदभिति-सत्ताया विशेषणत्वेऽनवस्थायाः स्वपरनिहेन परिहारात् उपलक्षणत्वे सत्त्वेनापाततो व्यवस्थापयितुं शक्यत्वस्य कदाचित्सत्वे अन्यदाऽपि तदभावो न संभवतीति भावः ।