SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ 424 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे सर्वार्थसिद्धिः अन्यदपि यदुक्तं 'अन्तर्भावितस (त्वं) त्तं चत्कारणं तदसत्ततः । नान्तर्भावितस (त्वं) त्तं चेत्कारणं तदसत्ततः ॥ [जडद्रव्य आनन्ददायिनी दूषयितुमनुभाषते - अन्यदपीति । (अद्वैतमतं दूषयितुमनुभाषते ) - अन्तर्भावित स ( त्वं) तं चेत्कारणमिति । सत्त्वविशिष्टं कारणं चेत् सत्त्वस्यापि कारणकोटिप्रवेशश्चेदिति यावत् । पूर्वसत्त्वं सत्त्वविशेष्ये विशेषणीभूतसत्त्वे वा नास्तीत्यसतः कारणत्वमायातमित्याह -- तदसदिति । न हि स्वविशिष्टे स्वस्मिन् वा स्वस्य वृत्तिर्युज्यते ; न च सत्त्वान्तरं ; तस्यासत्त्वे तद्विशिष्टस्याप्यसत्त्वं स्यात् । नान्तर्भावितेति — अन्तर्भावितसत्तं भावप्रकाशः सतस्सज्जायेत' इति श्रुतिसहकृतैतच्छ्रुतिस्वारस्यात् कार्यकारणयोरेकरूपमेव सत्त्वमिति प्रतीयते । अत एव बहु स्याम्' इत्यादि - श्रुतौ नामरूपविभागविभक्तकार्यसत्तायाः कारणानिष्ठत्वाभिधानसङ्गतिः । एतेन - अस्य द्वैतेन्द्रजालस्य यदुपादानकारणम् । अज्ञानं तदुपाश्रित्य ब्रह्म कारणमुच्यते ॥ इति वार्तिकमपि भवत्परिष्कृतपक्षकक्षीकृतमिव । कारणवाक्येष्वज्ञानवाचिपदाभावाच्च । एतच्च नायकसरे (४३) स्थापयिष्यत इति । 1 * अन्तर्भावितसत्तं चेदित्यादि - एतद्विवरणं खण्डनतद्वयाख्ययोलघुचन्द्रिकादौ चावधेयम् । अत्रासत्त्वं सत्त्वेनापाततो व्यवस्थापयितुमशक्यत्वं' इति आनन्दवर्धनटीकायाम् । "
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy