________________
सरः]
हेतुत्वस्य सत्त्वघटितत्वे दूषणपरिहारः
423
भावप्रकाशः
अयमाशयः -- अस्ति हि भगवतो व्यासस्य ब्रह्ममीमांसाद्वितीयसूत्रम् "जस्माद्यस्य यतः इति । तत्र च सत्ताया विशेषणतयोपलक्षणतया कारण कोटिविकल्पवत् जन्मादीनामुपलक्षणतया विशेषणतया वा लक्षण तेति विकल्पेनाक्षेपे समाधानमुच्यते । तत्र च यतो वा इमानि भूतानि जायन्ते' इति श्रुतिर्मूलम् । इयं च श्रुतिःउत्पन्नश्च स्थितो नष्ट उक्त लोकोऽर्थतस्त्वया । कल्पनामात्रमित्यस्मात् सर्वधर्माः प्रकाशिताः ॥ कल्पनाऽप्यसती प्रोक्ता यथा शून्यं विकल्प्यते । निरुद्धादनिरुद्धाद्वा बीजादङ्कुरसंभवः || मायोत्पादवदुत्पादः सर्व एव त्वयोच्यते । अतस्त्वया जगदिदं परिकल्पसमुद्भवम् ॥ परिज्ञातमनुत्पन्नमसद्भूतं न नश्यति । नित्यस्य संसृतिर्नास्ति नानित्यस्य च संसृतिः ॥ स्वप्नवत्संसृतिः प्रोक्ता त्वया तत्वविदां वर || (नागार्जुनस्तवे) यथा माया यथा स्वप्नो गन्धर्वनगरं यथा ।
तथोत्पादस्तथा नाशः स्थितिस्तद्भविष्यति ॥ (माध्यमिकवृत्तौ - कारिका) इति माध्यमिकमतं कटाक्षयति । तत्र भूतशब्दस्सत्ताश्रयार्थकः । अत एव कार्यसर्ववस्तुसंग्रहः । जगत्सत्तायां मानं प्रत्यक्षविषयार्थकेदंशब्देन दर्शितम् । 'अपितु देवपुत्र परमार्थसत्यं सर्वव्यवहारसमतिक्रान्तं निर्विशेषमसमुत्पन्नमनिरुद्धमभिधेयाभिधानज्ञेयज्ञानविगतं ' इत्यार्यसत्यद्वयावतारोक्तं सत्यं यदि साधकादसेत्स्यत् तदा 'इन्द्रियैः ' इत्यादि (बोधि + पं ३७५) कारिका समगंस्यत । न च तत्र साधकं किञ्चित् । अतः प्रत्यक्षतो जगतस्सत्ता सिध्यति । एवं कथम.
{