SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ 428 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे सर्वार्थसिद्धिः [जडद्रव्य परिवेषादिदृष्टान्तेन नान्यत्र हेत्वभावश्शक्योऽनुमातुम् । अनिश्चितसाध्यस्य दृष्टान्तत्वायोगात् । निश्चितसाध्यविपर्ययस्य पक्षत्वाद्यति(क्षत्वाती) पातात् । निश्चितनिदर्शनादनिश्चितानुमानं युक्तमेव । न चत्वद्विवादमात्रेण घटादिषु सर्वलोक ( संमतः ) सिद्ध: कार्यकारणभावस्संदिह्यते । एतेन 'अहेतुतो भावोत्पत्तिः कण्टकतैक्ष्ण्यादिदर्शनात्' इत्यादि च प्रत्युक्तम् । अस्तु हेतुनिरपेक्षो नियतकालः प्रागभाव एव कार्यस्य पूर्वावधिः; स हि स्वभावविरुद्धतया कार्यकालमन नुवानस्तत्पूर्व एवेति सिद्धं, अतः किमन्यैरित्यत्राहआनन्ददायिनी विपरिवर्तप्रसङ्ग परिहरति- अनिश्चितेति । निश्चितसाध्यविपर्ययस्येतिननु घटादावपि मृदादेर्यदृच्छा सिद्धत्वमुक्तमिति चेत्; मैवम् ; परिवेषादौ कारणाभावनिश्वये हि तद्व्याप्ताया घटादावपि मृदादेर्यहच्छासिद्धता । परिवेषादौ संदेहेन तद्बलाद्यदृच्छा सिद्धत्वकल्पनायोगात् । तथाच घटादौ सकारणकत्वव्याप्तिग्रहस्संभवत्येव । परिवेषादौ तत्संदेहश्व व्यभिचारसंदेहतया न प्रतिबन्धक इति साध्यविपर्ययनिश्वयात् न पक्षत्वमिति भावः । विपरिवर्तप्रसङ्गं परिहरति- एतेनेति । निश्चितसाघ्यदृष्टान्तेन (तत्रापि) कारणाविशेषानुमानसंभवादिति भावः । नन्वस्तु पूर्वावध्यनुमानम् । तथाऽपि प्रागभाव एव पूर्वावधिः कारणमस्तु । न च प्रागभावस्यपि यत्कारणं तदेव कारणम (तदेवावधिर ) स्तु, न तु प्रागभावः, तद्धेतोरेवेति न्यायादिति वाच्यं ; तस्य हेतुनिरपेक्षत्वात् । तथाच भाव रूपकारणनिरपेक्षत्वमेव निर्हेतुकत्वमित्या (मस्त्वित्या) शङ्कते - अस्तु हेतुनिरपेक्ष इति । स्वभावविरुद्धतया - भावाभावयोः स्वरूपेण विरुद्धतया । तत्पूर्व एव - अतः किमन्यैरिति सिद्धमित्यत्रा (मित्याहेत्य) न्वयः ! .
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy