________________
420
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः हेतुतत्वबहिर्भूतसत्त्वासत्त्वकथा वृथा ।। इति । तत्रोच्यते
आनन्ददायिनी र्गतसत्त्वासत्त्वविचारो व्यर्थ इति माध्यमिकमतस्थो(मतैकदेश्यु)क्तं दुरुक्तमिति प्रसङ्गाद्दषयितुमनुभाषते-यदत्र माध्यमिकमतस्थैरिति इत्याहुः । अस्मिन् पक्षे माध्यमिकग्रन्थ एव किञ्चिद्विषमं खण्डनेनानूदित इति ध्येयं ।
भावप्रकाशः खण्डने एव ‘कथंपुनरसतः कारणत्वमवसेयं प्राक्सत्त्वनियमस्य विशेषणस्यानभ्युपगमात् ; असत्त्वस्याविशेषात् ? इति चेन्न; इदमस्मानियतं प्राक्सदिति बुद्धया विशेषात्, इत्यादिना इयं कारिका विस्तरेण विवृता । तत्र कालान्तरसंबन्धिन्यास्सत्ताया विशिष्टव्यवहारप्रवृत्तिसमयेऽसत्त्वेऽपि व्यवहारोपपत्तिरतीतादेानविषयत्वोपपादनावसरे वक्ष्यमाणदिशा सुलभा। भवद्भिरपि तथाऽपि कालान्तरस्थित्या घटादिकं स्वरूपतो विशेषणतश्च व्यवच्छिन्नं तद्विज्ञानेन स्वभावबलात् स विशेषणत्वेनोपादीयते न त्वेवमत्यन्तासद्भवितुमर्हति ; तस्य स्वरूपतो विशेषणतश्च व्यवच्छिन्नतयाऽनङ्गीकारात् कुत्र स्वभावतो विज्ञानं संबन्धि निरूप्येत' इत्यादिना साधिता ॥
सत्या चेत्संवृतिः केयं ! मृषा चेत्सत्यता कुतः । सत्यत्वं न तु सामान्यं मृषार्थपरमार्थयो ॥
इत्यादिना संवृतिनिराकर्ता भट्टकुमारिलो भवदीयप्रतिवचनक्लेशं निरर्थकमाधत्ते । संवृतिसत्यव्यावहारिकसत्यशब्दौ न विवक्षितसाधको। असतः स्वरूपं न संभवतीत्यादिकं बुद्धिसरे (२४२) स्थापयिप्यते ;