________________
हेतुत्वस्य सत्त्वघटितत्वे दृषपरिहारः
421
सर्वार्थसिद्धिः 1* प्राकालनियतत्वेन कारणं प्रमितं न वा? ।
आनन्ददायिनी माध्यमिकमतस्थत्वं माध्यमिकमतानुसरणात् । यद्यपि खण्डने
__ अन्तर्भूतबहिर्भूतसत्त्वासत्त्वकथा वृथा ! इति किञ्चिद्विकृतं पठ्यते; तथाऽपि उत्तरत्र अन्तर्भावितेति तद्गन्थोपादानात् लेखकाधीनं तद्वैषम्यमिति केचिदाहुः । अन्येतुमाध्यमिकमतस्थः खण्डनकार उच्यते । उत्तरत्रान्यदपीति खण्डनग्र
भावप्रकाशः एवं परमतभङ्गेऽपीति भावेन प्रकृते दूषणं संगृह्णाति
* प्राक्कालनियतत्वेनेति श्लोकेन । तदेव-प्रमितत्वमेव । तम्यकारणस्य सत्त्वम् । ननु अबाधितविषयकज्ञानं प्रमा। तत्र कारणस्य त्रिचतुरकक्ष्यास्वबाध्यत्वमस्माकमपीष्टम् । कालत्रयाबाध्यत्वं तु न ज्ञातुमर्हमिति चेत् ; अत्र तत्वटीकावाक्यमुत्तरं----' सर्वदा सर्वेषामबा. धितत्वं दुज्ञानमिति चेत् , ब्रह्मणि कस्समाश्वासः' इत्यादि । ननु 'स्वप्रकाशाद्वितीयचैतन्यरूपत्वमेव ब्रह्मणः सत्त्वं, इत्यद्वैतसिद्धावुलं ; अतो न ब्रह्मसत्त्वानुपपत्तिरिति चेत् ; अत्रोक्तं शतदूषण्यामाचार्यैः सन् घट इति प्रत्यक्षस्य घटविषयकत्वस्थापनावसरे-'अतस्सच्छब्दार्थः स्वरूपं चेत् घटशब्दार्थोऽपि स्वरूपमेव' इत्यादि। सिद्धान्ते जात्यनङ्गीकारेण सत्त्वं जडस्वरूपमपि भवितुमर्हत्येवेति को दोष इति भावः । आचार्यपादानामाचार्यः तन्मातुलैर्वादिहंसाम्बुवाहायॆन्यायकुलिशेऽप्युक्तं चतुर्थे परिच्छेदे ... ' स्वरूपमेव हि भावानां सत्पदार्थस्संस्थानमात्रमिति स्थितमन्यत्र' इति । श्रीभाष्यकृतां परमगुरुभिः भगवद्यामुनमुनिभिरपि संवित्सिद्धौ ब्रह्मप्रतिबन्दिमुक्ता अनन्तरमेवमुक्तं