________________
सरः]
त्रिगुणपरीक्षायां हेतुत्वस्य सत्त्वघटितत्वे दूषणं
419
सर्वार्थसिद्धिः 1 * पूर्वसंबन्धनियमे हेतुत्वे तुल्य एव नौ ।
भावप्रकाशः. __ अधिकारोऽनुपायत्वान्न वादे शून्यवादिनः ॥ इति निरालम्बनवादे भट्टकुमारिलसिद्धान्तमेव पूर्वपक्षीकृत्य; तदनभ्युपगच्छतोऽपि चार्वाकमाध्यमिकादेर्वाग्विस्तराणां प्रतीयमानत्वात् तस्यैव वा अनिप्पत्तौ भवतस्तन्निरासानुपपत्तेः ; सोऽयमपूर्वः प्रमाणादिसत्त्वानभ्युपगमात्मा वास्तम्भनमन्त्री भवताऽभ्यूहितः ; नूनं यस्य प्रभा. वाद्भगवता सुरगुरुणा लोकायतसूत्राणि न प्रणीतानि ; तथागतेन वा मध्यमागमा नोपदिष्टाः; भगवत्पादेन वा बादरायणीयेषु सूत्रेषु भाष्यं नाभाषि' इत्यारभ्य माध्यमिकमतं परिष्कृत्य, ‘एवं च सति सौगतब्रह्मवादिनोरयं विशेष:-यदादिमः सर्वमेवानिर्वचनीयं वर्णयति । तदुक्तं भगवता लङ्कावतारे
बुद्धया विविच्यमानानां स्वभावो नावधार्यते ।
अतो निरभिलप्यास्ते निस्स्वभावाश्च देशिताः ।। इति । विज्ञानव्यतिरिक्तं पुनरिदं विश्वं सदसद्भ्यां विलक्षणं ब्रह्मवादिनम्सङ्गिरन्ते' इति तदेवं भेदप्रपञ्चोऽनिर्वचनीयः, ब्रह्मैव तु परमार्थसदद्वयमिति स्थितम्' इति चोक्तम् , तत्प्रघट्टकस्थामिदं कारिकाद्वयम् । अतो माध्यमिकमतस्थाः खण्डनकाराः । पूर्वोक्तविशेषसूचनाय खण्डनकारैरित्यनुक्ता माध्यमिकमतस्थैरित्युक्तम् । अत एवाद्वैतसिद्धौ ‘तदुक्तं खण्डनकृद्भिः' इति कारिकाद्वयमुदाहृतम् । । * पूर्वसम्बन्धनियमे इत्यादि-खण्डने अन्तर्भावितसत्तं चेदित्यादिकारिकातद्विवरणानन्तरं 'तस्मात् पूर्वसम्बन्धनियमे' इत्यादिरुपसंहारग्रन्थः । तत्र प्रतिबन्दिदूषणापेक्षया प्रथमं तन्मतदूषणमेव प्राधान्यात्कर्तुमुचितमिति भावेन प्रथममुपसंहारदूषणम् ॥
27*