________________
418
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलाप
जडद्रव्य
सर्वार्थसिद्धिः प्रयुक्ताः प्रतिवक्तव्याः प्रतिष्ठितनयस्थितैः ।। 1 * यदत्र माध्यमिकमतस्थैरुच्यते
आनन्ददायिनी दुर्निरूपत्वात् पूर्ववृत्तं च कारणं वाच्यम् ; पूर्वत्वं च कार्यप्रागभावावच्छिन्नकालत्वम् । प्रागभावत्वं च प्रतियोगिजनकाभावत्वम् ; तथाचात्माश्रय इत्याद्यन्येऽप्युपप्लवाः प्रतिष्ठितनयस्थितैः-सम्यगभ्यस्तन्यायैः पुरुषैः प्रतिवक्तव्याः-परिहरणीया इत्यर्थः । तत्प्र(त्परिहारप्र)कारस्तु-न च लक्षणस्यानिर्वचनमात्रेण वस्तुनोऽभावः; इक्षुक्षीरादिमाधुर्यवैजात्यविलोप(त्याभाव) प्रसङ्गात् । प्रतियोगित्वादिवत् स्वरूपसंबन्धविशेषत्वेनाप्यन्तत उपपत्तेः । अनन्यथासिद्धनियतपूर्ववृत्तित्वा (सत्त्वा) दिना निर्वच (चनसंभवाच्च) नोपपत्तेश्च । नापि ग्राहकाभावः ; अनन्यथासिद्धान्वयव्यतिरेकादेहिकत्वात् । नापि पूर्वत्वनिर्वचनप्रयुक्तदोषः । विनाश्यभावावच्छिन्न (श्यभाव) त्वादिना निर्वचनसंभवादिति । ननु सतः कार्यकारणभावो नोपपद्यते कार्यकारणभावस्य सत्त्वाधीनत्काभावेन असत्त्वनियतत्वादिति खण्डनोक्तिमनुवदति- यदत्रेति । अन्येतु ननु सर्वशून्यवादे कार्यकारणभाव एव न संभवति ; शून्यस्य किञ्चिदपेक्षया पूर्वसत्त्वाभावात् । तथाच भ्रान्तिसिद्धस्यापि कालविशेषे उत्पत्तिः कालविशेष प्रतीतिरित्याद्यनुपपन्नमित्याशङ्कय पूर्वकालसत्त्वमात्रमतिप्रसक्तं ; नियतसत्त्वविवक्षायां पूर्वकालनियतत्वमेव लाघवादस्तु ; तच्च वादिप्रतिवादिनोम्समानमेव । सत्त्वं तु गौरवादनन्तर्भूतम् । तथाच कारणत्वानन्त
भावप्रकाशः 1 * यदत्रेत्यादि । तत्र खण्डनकारैः--
सर्वथा सदुपायानां वादमार्गः प्रवर्तते ।