________________
सरः]
पौर्वान्नियमो दुरपलपो क्षभङ्गानुपपत्तिः अगमस्य प्रमाणता च
415
सर्वार्थसिद्धिः अनुमीयेत तत्रापि प्रामाण्यमविशेषतः ।। अस्त्वेवम् ; तस्य नियमो न शक्यः ; अस्मादेवेदमनन्तरमिति । तदेतन्नियतपूर्वत्वं हि न जातेजातिमपेक्ष्य ! द्वयोरपि त्रैकालिकत्वात् । नच जातेर्व्यक्तिमपेक्ष्य ; सर्वासां जातीनां पूर्वत्वेन कारणनियमासिद्धेः। जात्यन्तरापेक्षया कार्यत्वं न दृष्टमिति चेत् । किमतः पूर्वमेतजातिकार्यत्वमपि दृष्टं ? एकव्यक्तेश्च नियमो दुग्रहः अननुवृत्तेः । कृत्तिकारोहिण्योरपि ह्युदयभेदेष्वेव व्याप्तिगुह्यते । एतेन व्यक्तेर्जात्यपेक्षया व्यक्तयपेक्षया वा पूर्वत्वनियमोऽपि प्रत्युक्त इति; अयमप्यनुक्तोपालम्भः; एतद्धर्मकादेतद्धर्मक
आनन्ददायिनी अनुमानप्रामाण्यमावश्यकमित्याह-यत इति । यतो लोकात् प्रत्यक्षात् । प्रवृत्तिसामर्थ्य-प्रवृत्तिजनकता । प्रामाण्यसंदेहादिना नोपलभ्यते तत्राप्यविसंवादिप्रत्यक्षाविशेषात्प्रामाण्यमनुमीयेत ततः प्रवृत्तिः अन्यथा प्रवृत्ति स्यादिति भावः । अस्त्वेवमिति--अस्मादेवेदमनन्तरमिति तस्य कारणस्य नियमो ग्रहीतुं न शक्य इत्यर्थः । तदेवोपपादयतितदेतदिति । कारणनियमासिद्धेरिति-तन्तुजातिः पटकारणमिति नियमो न सिद्धयेदित्यर्थः । एतज्जातीति-तन्तुजातीत्यर्थः । एकव्यक्तरिति रासभादितुल्यत्वादिति भावः । ननु कृत्तिकाराोहण्यादावेकव्यक्तिकत्वेऽपि व्याप्तिग्रहो दृष्ट इत्यत्राह—कृत्तिकेति । तत्राप्यनयोरुदयानां भिन्नभिन्नानामनेकेषामेव व्याप्तिर्गृह्यत इत्यर्थः । एतेनेति- एकव्यक्ती (क्तेः)नियमस्य(मेन) दुर्ग्रहत्वादि(त्वेने)त्यर्थः । अनुक्तोपालम्भ इतिजात्याद्यपेक्षया जन्यजनकभावस्थानुक्तेरिति भावः । तर्हि . किमुक्त मित्यत्राह-एतद्धर्मकादिति । दण्डत्वादिधर्मकात् ... घटत्वादिधर्मकं