SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे सर्वार्थसिद्धिः मुपजातमिति जात्युपाधिक्रोडीकृतरूपेण व्यक्तिषु नियमसिद्धेः । यथादर्शनं चेयत्तानियमरहितनिरुपाधिनिर्व्यभिचारभूयोदर्शनबलेन व्याप्तिसिद्धिश्चानुमाने वक्ष्यते । नच सर्वस्मात्तादृशात्तादृशं सर्वमनियतं वा स्यादिति शङ्कनीयं । तथा व्याप्तेरग्रहणात् । तद्विरुद्धा च ते प्रार्थना मोघैव । तृणारणिमण्यादिषु च वह्नयआनन्ददायिनी [क्षद्रव्य 416 1 जातमित्यर्थः । जात्युपाधीति – तथाच यद्धर्मावच्छिन्नं प्रति यद्धर्मावच्छिन्नमनन्यथासिद्धनियतपूर्वं तद्धर्मावच्छिन्नं तद्धर्मावच्छिन्नाज्जातमिति जात्युपाधिक्रोडीकारेण व्याप्तिग्रहसंभवादित्यर्थः । ननु सहचारदर्शनोपाध्यभावनिश्चयव्यभिचारज्ञानविरहाणां व्याप्तिग्राहकत्वं वाच्यं सहचारदर्शनमात्रस्य व्यभिचारिसाधारण्यात् भूयोदर्शनानां त्रिचतुरादिभावेनाननुगतत्वात् उपाधेर्योग्यायोग्यरूपत्वेन तदभावस्य दुरवधारणत्वात् भूतभाव्यसन्निकृष्टव्यक्ति (वस्तु) षु व्यभिचारसंदेहेन व्यभिचारज्ञानविरहस्याप्ययोगा न्न (तैः ) व्याप्तिग्रह इत्यत्राह - - यथादर्शनं चेति निरुपाधिः–उपाध्यभावनिश्चयः । निर्व्यभिचारः - व्यभिचारज्ञानविरहः । भूयोदर्शनं – भूयस्सहचारदर्शनमित्यर्थः अनुमान इति — अनुमाननिरूपणावसरे इत्यर्थः । सर्वस्मात् - दण्डचक्रादितः । सर्वं घटपटादिकमुत्पद्येत । यद्येका सामग्रीति न्यायादेकमेवोत्पद्यते तथासति अनियतो घटः पटो वा जायेतेत्यतिप्रसङ्गश्च नास्तीत्याह - नचेति । तद्विरुद्धा चेति । एतज्जातीयादे तज्जातीयमुत्पद्यत इति व्याप्तिग्रहविरुद्धा सर्वानियतोत्पत्तिप्रार्थनेत्यर्थः। नन्वेतज्जतीयादेतज्जातीयमुत्पद्यत इति व्याप्तिग्रहो नोपपद्यते ; तृणजातीयाद्वह्निजातीयमिति व्याप्तेरभावात् तदभावेऽपि वह्नि (मण्यादेरपि वह्निजातीय) दर्शनात् । एवं मण्यादिजातयादपीति चोद्यं परिहरति'तृणारणीति । एक (जातीय) शक्तिमत्त्वेन त्रयाणां वहिजातीये कारणत्वं । 1
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy