________________
414
सर्वार्थसिद्धिसहिततत्वमुक्तांकलापः
[जडद्रव्यं
सर्वार्थसिद्धिः क्रमेणोपाधिभिर्योगस्साकल्येनांशतोऽपि वा । कालस्य न घटेतेति स्थिरवादी कथं वदेत् ।। प्रत्यक्षेण वि(प्रत्यक्षप्रति)रुद्धश्च क्षणभङ्गपरिग्रहः । अपसिद्धान्तमादध्यात् मानमन्यदनिच्छतः । अथ लोकायतान्तस्स्थमनुमानं च मन्यसे । आगमोप्यविसंवादी तदन्तस्स्थातुमर्हति । य(त्र)तः प्रवृत्तिसामर्थ्य न लोकादुपलभ्यते ।
___आनन्ददायिनी भ्युपगन्तव्यत्वादिति भावः । कृत्स्नैकदेशविकल्पं परिहरति-क्रमणेति । तस्यैकस्य कालम्य क्रमेणोपाधियोगो वक्तुं शक्यः । क्षणिकत्वपक्ष एव परं वक्तुं न शक्यते । एकेनानेकेषामानन्तर्येण योगः क्रमवदुपाधिसंबन्धः । न च कृत्यैकदेशविकल्पदोषः उभयथाऽपि दोषाभावात् । न च सर्वस्यापि पूर्वपरत्वयोः प्रसङ्गेन विभागाभावः ; तत्तत्पूर्वोपाधिकाले सर्वस्य पूर्वत्वात् तत्तत्परो(तत्तदप)पाधिकाले सर्वस्य परत्वाच्च । नचैकदेशासंभवः ; सततपरिणामवादिभिरस्माभिस्तद(स्या) ङ्गीकारे विरोधाभावाच्चेत्यर्थः । ननु क्षणभङ्गाङ्गीकारात् क्रमवदुपाधियोगो न घटते इत्याशङ्कय किं प्रत्यक्षेण क्षणभङ्गस्वीकार उतानुमानेन ? इति विकल्पमभिप्रेत्य आद्यं दूषयति-प्रत्यक्षेणेति । प्रत्यभिज्ञारूपप्रत्यक्षेण स्थैर्यगोचरेणेत्यर्थः । द्वितीयं दूषयति-अपसिद्धान्तमिति । तव प्रत्यक्षादन्यस्याप्रमाणत्वादिति भावः । लोकायतान्तस्स्थमिति-लोकायतं-चार्वाकशास्त्रं तत्रानुमानमप्यन्तर्गतं तथाच नापसिद्धान्त इति भावः । केचित्तु(अन्येतु)लोकायतान्तस्स्थं (लोकायतं तटस्थं) प्रत्यक्षान्तर्गतमित्यर्थ इत्याहुः । आममोऽपीति तुल्यत्वादिति भावः । किञ्च