________________
सरः]
कारणस्य स्वरूपालाभशङ्कापारहारः कारणस्य पूर्वत्वनिरूपणंच
413
सर्वार्थसिद्धिः वात् । कालान्तरासत्त्वेन तुच्छत्वे प्रत्यक्षविषयोऽपि तथा स्यात् । तथाचेयं (तथा च ते) माध्यमिकगतिः। अथ बेषे ; पूर्वत्वमेव कारणस्य दुर्निरूपं पूर्वकालवृत्तित्वं हि तत् ! काले च पूर्वत्वमुपाधिकृतम् । स चोपाधिर्यद्ययमेव तदा तदधीनं कालस्य पूर्वत्वं कालाधीनं चोपाधेरित्यन्योन्याश्रयः । अन्यापेक्षायां चक्रकं अनवस्थापि । कालस्य क्रमवदुपाधिसंवन्धभेदाझेदश्व कृत्स्नैकदेशविकल्पदुःस्थ इति । एवं ब्रुवता किं पौर्वापर्यमेव न दृष्टं ? दृष्टमपि वा बाधित ? नाद्यः; स्वाभ्युपेतलोकव्यवहारविरोधात् । न द्वितीयः; सर्वेषां नित्यत्वतुच्छत्वयोरन्यतरप्रसङ्गात् । अतः काले सत्यसति वा क्रमस्तावदुरपह्नवः
आनन्ददायिनी प्रयोजकं लाघवादित्यत्राह-कालान्तरेति । प्रत्यक्षविषयस्यापि काला. न्तरासत्त्वादिति भावः । कृत्स्नैकदेशेति-कालः क्रमादुपाधिभि: कात्नर्येन संबध्यते अथैक(थवैक)देशेन ? न प्रथमः ; सर्वोऽपि कालः पूर्वो वा परो(रोऽपि)वेति पूर्वापरविभागो न स्यात् । न द्वितीयः ; एकदेशाभावादिति विकल्पदुःस्थत्वादित्यर्थः । स्वाभ्युपेतति-स्वाभ्युपेतव्यवहारविरोधो लोकव्यवहारविरोधश्चेत्यर्थः । पूर्वः पर इति व्यवहारस्य सर्वसिद्धत्वादहेतुकस्य नोत्पत्तिः । 'पूर्व नैव स्वभावतः ' इति चार्वाकव्यवहाराचेति भावः । सर्वेषामिति । इदं पूर्वमिदं परमिति पौर्वापर्यविशिष्टप्रतीतिदृश्यते ; तत्र विशेषणीभूतपूर्वत्वमात्रबाध नित्यत्वं विशेष्यबाधे विशिष्टबाधे च तुच्छत्वं स्यादित्यर्थः । ननु कालानभ्युपमन्युः कथमित्यत्राह-अतः काल इति । कालशब्दवाच्यस्य कस्य चित् तैरष्य