________________
412
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः कारणमित्युक्तं स्यत् । दृष्टा च मृदिते मृत्पिण्डे घटोत्पत्तिः । तथाच स्वात्मानमलभमानस्य कथं परसाधकत्वम् ? अन्यथा चिरातिक्रान्तस्य च स्यादेव कारणत्वं । तुच्छस्य च कारणत्वे कार्यत्वमपि तुच्छं स्यात् नित्यं वेति; तदपि न; पूर्वक्षणसत्त्वमेव हि कारणस्य कार्योपयोगि! न च. तत्तदा नास्ति! कार्यक्षणे तु कस्यचिदसत्त्वं न कारणत्वविरोधि । पूर्व नष्टमित्यप्यसाधु; स्थिरवादे तदयोगात् । पिण्डस्य तु न साक्षात्कारणत्वं । न च पिण्डस्तत्प्रध्वंसो वाऽत्यन्ततुच्छः! स्वकाले सद्भा
आनन्ददायिनी
पूर्वकाल इत्यादौ पूर्वपदस्यातीतार्थकत्वादर्शनादित्यर्थः । अन्यथेतिस्वरूपाभावस्योभयत्र तुल्यत्वादिति भावः । तुच्छस्येतिउपादानसमानस्वभावत्वादिति भावः । तुच्छस्य सार्वकालिकत्वात् कार्योत्पादे विलम्बात् तुच्छकारणानन्तरक्षणवर्तिप्रागभावप्रतियोगित्वं न स्यादित्यर्थः । अन्ये तु-तुच्छस्य सार्वकालिकतया सार्वकालिककार्यपरम्परा स्यादित्यर्थ इत्याहुः । किं कारणमात्रस्य स्वकार्यकालसत्त्वं वक्तव्यं कारणविशेषस्य वा ? इति विकल्प्य आद्यं प्रतिवक्तिपूर्वक्षणसत्त्वमिति । द्वितीयं प्रतिवक्ति-कार्यक्षण इति । निमित्तस्यासत्त्वं न विरोधि उपादानस्यासत्त्वं विरोध्यप्यत्र नास्तीति भावः । तदेवोपपादयति--पूर्व (मिति)मेवेति । पिण्डत्वावस्थानाशेऽपि मृद उपादानस्य सत्त्वादित्यर्थः । पिण्डस्यति-पिण्डावस्थाया इत्यर्थः । न साक्षादिति- परिचायकत्व(मात्र)मित्यर्थः । स्वकाले इति—सार्वकालिकासत्त्वमेव हि तुच्छत्वमिति भावः । असत्त्वमात्रमेव तुच्छत्व
-