________________
सरः] कार्यकारणभावस्यद्विष्ठत्वप्रत्येकजननशक्तत्वतदभावविकल्पदूषणोद्धारः 411
सर्वार्थसिद्धिः
समुदिता अपि । न हि नद्यरसमेत्यापि दहेयुः ! नच सिकतास्संभूय तैलं जनयेयु ! शक्तानामेव संभूयकरणे सर्वे कृतकराः स्युः । शक्तस्य कुर्वतोप्यन्याकाङ्क्षायां सर्वैरपि स्यात् । तथाच देशादिव्यवहितानामसन्निधेः कथै कार्यारम्भः । नहि कार्ये कारणानां साध्यांशभेदः ! विभक्तदशायां समुदाये वा तस्यादृष्टेः । निरंशे गुणादौ च दुर्वचमेतदिति अत्रोच्यतेसमुदितानां कार्यकरत्वमेव हि प्रत्येकमपि हि शक्तिः ! कथमत्र वियुक्तैः कार्यकरणं ? कथं च समेतेषु कृतकरता? अतरशक्तस्यापि सहकार्याकाङ्क्षायामतिप्रसङ्गश्च निरस्तः । यावत्कार्यसिद्धि नियतविषयत्वात्तस्या इति । ननु पूर्व कारणामित्युक्ते नष्टं
आनन्ददायिनी
दूषयति-- शक्तानामिति । एकस्यापि शक्तत्वेन कार्यस्य करणादित - रैरपि तस्य करणे कुतः करणत्वमितीतर ( कृतकरत्वमिति सहकारि ) वैयर्थ्यमिति भावः । सर्वैरपि स्यादिति - अविशेषादिति भावः । अस्तु को दोष इत्यत्राह—–तथाचेति । एकघटव्यक्तयुत्पत्तौ दण्डादिकारणताव (त्पत्तिस्थदण्डत्वादिकारणत्वावच्छेदकावच्छिन्नयावद्भिर्भवित व्यमिति देशादिव्यवहितानां सन्निध्यसंभवादुत्पत्तिरेव न स्यादित्यर्थः । ननु सन्निहितं कारणं कार्ये कञ्चिदंशं जनयति असन्निहितं च यदा सन्निधास्यति तदेतरांशं जनयतु कथं कार्यानारम्भ इत्यत्राह नह कार्ये इति । एतदिति - जन्यजनकत्वमित्यर्थः । यावत्कार्यसिद्धीतिएककार्यनिरूपितानि यावन्ति कारणतावच्छेदकानि प्रत्येकं तावदवच्छिन्नयत्किञ्चित्सत्त्व एव कार्यदर्शनादिति भावः । नन्विति
-