SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ 410 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य ...rrrrrrror सर्वार्थसिद्धिः • वत्वे घटत्वनीलत्वादिवत् सर्व प्रत्यपि स्यातां; अस्वभावत्वे कस्यचिदपि न स्यातामित्यपि नियतप्रतिसंवन्धिकस्वभावत एव तदुभयसिद्धेर्निरस्तं । दण्डादिकार्यत्वं घटादिकारणत्वं वा नीलादिवदेव पुरुषभेदेऽप्यविपर्यस्तमेव । अथ स्यात् । कार्यकारणभावस्य द्विष्ठत्वे द्वयोरपि द्वैरूप्यादविशेषविरोधभेदापत्तयस्स्युः । एकस्थत्वेऽपि यत्रैकस्मिंस्तत्रैवमिति; तत्र ब्रूमः; कार्ये कार्यत्वं कारणे कारणत्वं च वर्तते; तथाऽप्यन्योन्यनिरूप्यतया संबन्धव्यवहारादिसिद्धिारति । स्यादेतत् । न तावद्दण्डादयो मृदाधवयवाश्च प्रत्येकं घटाधुत्पादनशक्ताः अदर्शनात् । अत एव न . आनन्ददायिनी संभवति । स्वभावत्वव्याघातादिति भावः । अस्वभावत्वे इतितद्धर्मत्वाभाव इत्यर्थः । नियतप्रतिसम्बन्धिकेति- कार्यकारणत्वे स्वभावावेव । नचातिप्रसङ्गः; संयोगादिवत्प्रतिसंबन्धिनियमादित्यर्थः । स्वभावत्वमेवोपपादयति--दण्डादीति । यथा नीलादिकं धर्मिविशेषनियतमपि तस्य स्वभावः पुरुषविशेषनियतं च न भवति तद्वदित्यर्थः । विपर्यस्तं-- विपरीतं तदन्यदिति यावत् । अविशेषेति-कार्यस्यापि कारणत्वं कारणस्य कार्यत्वं कार्यकारणयोस्स्वस्वापेक्षया पूर्वभावित्वपश्चाद्भावित्वरूपविरोध एकस्यैव कार्यकारणरूपेण भेदश्च स्युरि(स्यादि)त्यर्थः । एकस्थत्वेऽपि-कार्यकारणयोरन्यतरमात्रवृत्तित्वेऽपि । यत्रेति-यत्र कार्यकारणभाववै(भावाद्वै)रूप्यं तत्र उक्तदोषाः स्युरित्यर्थः । ननु मृदादयश्शक्ताः कार्य जनयन्त्यशक्ता वेति विकल्पमभिप्रेत्य द्वितीयं दूषयतिन तावदिति । अशक्तानां जनकत्वं व्याहतमिति भावः । आचं
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy