________________
402
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
(जडद्रव्य
तत्वमुक्ताकलापः सत्त्वेऽसत्त्वेऽपि पूर्व किमपि गगनतत्पुष्पवन्नैव साध्यं
सर्वार्थसिद्धिः स्यात् । बुद्धयादिरर्थक्रियाऽस्त्विति चेन्न; तस्यानियतत्वात् । विनाशस्तर्हि अर्थक्रियास्त्विति चेन्न; तस्य ते तुच्छत्वात् ध्रुवभावित्वेनाहेतुकत्वाभ्युपगमाञ्च । एवमन्त्यदीपासत्त्वे च तत्कारणपरम्पराया अपि तथात्वं स्यादिति ॥ ३१ ॥
इति क्षणभङ्गभङ्गः
ननु साध्यसाधन(हेतुसाध्य)भावे सिद्धे हि प्रस्तुतं पक्षचतुष्टयं सिध्येत् । स एव नास्तीति चार्वाक उत्तिष्ठते-सत्त्वेऽसत्त्वइति ।
आनन्ददायिनी भावादिति भावः । बुद्धयादिरिति--विषयप्रकाशकतया विषयतया वा बुद्धयादिजनकत्वाभावादिति भावः । आदिशब्देन तमोनिरसनादिर्गृह्यते । नन्वन्त्यदीपस्य सत्त्वं माभूदित्यत्राह-एवमन्त्यदीपादिसत्त्वे इति । (तथाच) उपान्त्यस्यान्त्यदीपजनकत्वेन सत्त्वं वाच्यं ; अन्त्यस्यासत्त्वे तुच्छतयोपान्त्यजन्यत्वमेव न स्यात् ; तथाचोपान्त्यस्याप्यर्थक्रियाविरहात्तच्छता ; तथा पूर्वपूर्वेषामपीति दीपपरम्परावत्सर्वक्षणपरम्पराणामपति चरमबौद्धपक्ष(पात)स्स्यादित्यर्थः ॥ ३१ ॥
इति क्षणभङ्गभङ्गः.
कार्यकारणभावसमर्थनार्थमाक्षेपसंगतिमाह-नन्विति । पक्षचतुष्टयमिति वैनाशिकावैनाशिकसाङ्ख्यसिद्धान्तिपक्षचतुष्टयमित्यर्थः ।