SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ सरः] अन्त्यदीपविनाशे सान्वयत्वसाधनं तत्र हेतुदोषोद्धारः अन्ततः परानिष्टंच 401 तत्वमुक्ताकलापः दुर्दर्शावस्थया स्युः पयसि लवणवत् लीनदीपादिभागाः ।। ३१ ।। सर्वार्थसिद्धिः ढोपलब्धत्वात् प्रत्यक्षबाधपरिहाराय दुर्दर्शावस्थत्वो (स्थो) क्तिः । स्युरित्यनेन दृश्यावस्थानिवृत्तावपि स्वरूपसत्त्वं सूच्यते । ननु पयसि लवणवदित्ययुक्तं तत्रापि निरन्वयविनाशात् ; तन्न ; रसे(रसने) न सूक्ष्मावयवानुमानात् । दीपावयवेषु लिङ्गमपि नास्तीति चेन्न; दीपोर्ध्वदेशि (शवर्ति) नां किञ्चिदौष्ण्योपलब्ध्या दीपावयवसंक्रान्तेस्सुगमत्वात् । प्रभूतदीपपार्श्ववर्तिनां च तापस्वेदादिस्तत एव । एवमन्त्यदीपनाशेऽप्यदृश्यावयवविसर्पस्सिद्धः । अतो विनदीपभागानुपलब्धेरदृश्यावस्थानिबन्धनत्वात् अनन्यथासिअप्रत्यक्षसिद्धः सान्वयविनाशदृष्टान्त एव साधीयान् । अन्त्य - दीपादेश्व यदि न किञ्चिदुपादेयं ततोऽर्थक्रियाविरहादसचं आनन्ददायिनी प्रत्यक्षबाघेति । योग्यानुपलब्ध्यभावान्नानुपलम्भमात्रं बाधकमिति भावः । विसर्पः प्रसरः व्यापनमिति यावत् । ननु विनिगमकाभावात् को निर्णय इत्यत्राह—अतो विनष्टेति विनष्टदीप (दीपादि)स्थले निरन्वयविनाशस्सन्दिग्धः सूक्ष्मत (क्ष्मावस्थ) याऽप्यनुपलब्धिसंभवात् । तथाच निरन्वयव्याप्तिग्रहो न शक्यः । सान्वयस्य तु घटादिनाशस्थले सन्देहाभावाद्व्याप्तिस्सुग्रहेति भावः । विपक्षबाधकबलादपि निश्चय इत्याहअन्त्यदीपादेश्चेति । निरन्वयविनाशाङ्गीकारात् तज्जन्यस्य कस्यचिद 26 SARVARTHA.
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy