________________
400
___ सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडव्य
तत्वमक्ताकलापः
बाधादेर्दर्शितत्वात् अपिच दृढमिते सान्वयेऽस्मिन् घटादौ
सर्वार्थसिद्धिः यो विनाशस्स निरन्वयः यथाऽन्त्यदीपस्य ; अस्ति च विनाशो जातानां; अतस्सोऽपि निरन्वय इति निरन्वयध्वंसक्लप्तिने शक्या। तदुपपादयति-बाधादोरिति । प्रत्यभिज्ञाबाधस्य प्रवृत्तवाद्यनुपपत्तीनां च दार्शतत्वाद्विपरिवर्तश्च युक्त इत्याहअपिचेति । अन्त्यदीपविनाशस्सान्वयः विनाशत्वात् पटादिविनाशवत् । साध्यविकलो दृष्टान्त इति चेन्न; संघातांशानां वा गन्धादिधर्माणां वा श्यामरक्तादिधर्मिणां वा यथासंभवमनुवृत्ते
आनन्ददायिनी वन्त इति शेषः । तदुक्तप्रयोग दर्शयति—यो विनाश इति । प्रत्यभिज्ञाबाधस्येत्यादि-यद्यपि न निरन्वयविनाशसाधने प्रत्यभिज्ञाबाधादिदर्शितः तथाऽपि । निरन्वयविनाशसाधनस्य क्षणिकत्वसाधनार्थत्वात् तत्र बाधादिदर्शित इति भावः । ननु माभूत् क्षणिकत्वसाधनार्थता ; निरन्वयविनाशमात्रं साध्यतामिति चेन्नः ; घटादिनाशस्थले कपालमालाद्यनुवृत्तिदर्शनात्तथाऽपि बाध एव । अत एव बाधादोरति सामान्योकिरिति ध्येयम् । प्रवृत्त्याद्यनुपपत्तिश्च आत्मनो विनाशित्वादिति भावः । विपरिवर्तश्चेति । प्रत्युत अन्त्यदीपविनाशस्थल एव सान्वयनाशसाधनं स्यादित्यर्थः । गन्धादीति-आदिशब्देन रसादिगृह्यते ।