________________
सरः]
त्रिगुणपरीक्षायां स्वोक्तनिगमनं निरन्वयविनाशपक्षानुवादः
399
तत्वमुक्ताकलापः दीपादीनां कदाचित् सहशविसदृशाशेषसंतत्यपेते ध्वंसे दृष्टेऽप्यशक्या तदितरविषयेऽनन्वयध्वंसक्लप्तिः ॥
- सर्वार्थसिद्धिः निदर्शनं दूषयति–दीपादीनामिति । आदिशब्देन क्षणरुचिबुद्बुदादिसंग्रहः ।
स निरन्वयनाशस्स्यात् धर्मो धर्म्यपि वा पुनः । पूर्वसंघातभागो वा यद्भावेनानुवर्तते ॥ उत्पत्तिश्च तथाभूता निरन्वयसमुद्भवा । तावुभौ सर्वभावानां नियताविति सौगताः ॥
आनन्ददायिनी धनमयुक्तं विनाशस्य सान्वयत्वात् अनृवृत्तांशस्य स्थिरत्वेन बाधादित्याशङ्कय सर्वत्र निरन्वयविनाश एव न तु कस्यचिदंशस्यान्वयो येन बाधो देश्येतेति सौगतोक्तं संवादयति-स निरन्वयनाशस्स्यादिति । धर्मो-गन्धादिः । धर्मी-पाकरक्तस्थले घटादिः । पूर्वसंघातभागःघटादिसंघातस्यावयवः तन्त्वादि यद्भावेन - यत्स्वरूपेणानुवर्तते इत्युच्यते ; तन्न; कुतः ? स निरन्वयनाशस्स्यात्-निरवशेषं नश्यति ; तथाच नानुवर्तत इति न क्षणिकत्वसाधने बाध इत्यर्थः । उत्पत्तिश्च तथाभूता-द्रव्यादेरुत्पत्तिरपि विनाशवदेव । तथाशब्दार्थमेवाहनिरन्वयेति । पूर्वमवयवाद्यभावेऽपि द्रव्यसमुत्पाद इत्यर्थः । सर्वभावानां—सर्वपदार्थानां । सौगताः न्यायचन्द्रिकायां प्रतिपादित