________________
सरः]
त्रिगुणपरीक्षायां पूर्वोक्तदृष्टान्तासिद्धयुपपादनं
395
सर्वार्थसिद्धिः योऽपि तावत्परासिद्धः स्वयं सिद्धोऽभिधीयते ।
भवेत्तत्र प्रतीकारः स्वतोऽसिद्धे तु का क्रिया ? अनन्यावच्छेदे(दार्थे)न स्वरूपेणैव कश्चित् क्षणशब्दवाच्य इति चेत् ; तर्हि क्षणभङ्गसाधनात्पूर्वमसिद्धः कथं दृष्टान्तस्स्यात् ?
उत्तरप्रागभावाप्तपूर्वध्वंसैककालतः। मध्यमक्षणतादृक्तं व्यवस्थाप्यं त्वयाऽप्यतः ॥
आनन्ददायिनी
धनमुखेन प्रतिक्रिया परिहारश्च संभवति । स्वतोऽसिद्धौ)द्धे स्वमत एवासिद्धिौ)द्धे । का प्रतिक्रिया-कः प्रतीकारः । स्वमतासिद्धस्याप्यभ्युपगमे अपसिद्धान्ता(पाता)दित्यर्थः-स्वत इति । सार्वविभक्तिकष्षष्ठ्यर्थे तसिः । अनन्यावच्छेदेनेत्यस्य विवरणं-स्वरूपेणैवेति । कालरूपवस्त्वपि मास्तु ; तस्य कश्चिदुपाघिरपि माभूत् ; किन्तु स्वरूपेणैव सिद्धेषु कश्चित् क्षणो भवतु-स एव क्षणिको दृष्टान्तोऽस्त्वित्यर्थः । तहीति- तादृशक्षणिकः क्षणशब्दवाच्योऽनुमानात्साधनीय इति भावः । क्षणिकत्वसिद्धयनन्तरमेव तादृशक्षणसिद्धिमुपपादयति-उत्तरेति । क्षणसन्ततीनां मध्ये मध्यमः क्षणः पूर्वक्षणध्वंसोत्तरक्षणप्रागभावाभ्यामेककालो भवति । तदेककालत्वमेव क्षणत्वं अतिप्रसङ्गाभावादिति त्वयाऽपि वाच्यं । तच्च क्षणिकसन्तानसिद्धयपेक्षं क्षणिकत्वसाधकानुमानादेव सिद्धयतीति न ततः पूर्व सिद्धयतीत्यर्थः । मध्यमक्षणस्य ता(क्]) शत्वं क्षण(णिक)त्वं । 'तदशिष्यं संज्ञाप्रमाणत्वादिति'. ज्ञापकात्