SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ 394 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः व्यापिनोरक्षणिकत्वात् तदवच्छिन्नस्य कालस्य तु क्षणत्वादेव न क्षणिकत्वमिति वस्तुस्थितिः। त्वत्पक्षे तु कालावच्छेदः क्षणोपाधिरसिद्धः कालस्यैवाभावात् । नचासिद्धोऽपि साध्यः स्वमतविरोधात् । यथाऽऽहुः आनन्ददायिनी लव्यापी प्रागभावः ऊर्ध्वव्यापि चरमकारणमित्यर्थः । तथाच तदवाच्छनकालस्य क्षणत्वेऽपि तयोर्न क्षणिकत्वमित्यत्राह-तदवच्छिन्नस्यति । तथाच सिद्धान्तिमतानुसारेण दृष्टान्तासिद्धिरिति भावः । ननु सिद्धान्तिमते कालः क्षणलवादिपरिणामवानित्युक्तत्वात् स्वरूपेण क्षणरूपपरिणामोऽङ्गीकृतः । न च तस्योपाध्यवच्छिन्नकालत्वं ; येनोक्तरीत्या स्थिराणामवच्छेदकत्वमुच्येत । अत एव सिद्धान्त्यभिमतदशावत्त्वेन द्रव्यलक्षणवत्त्वात्कालस्य द्रव्यत्वं । तथाच तादृशक्षणावस्था दृष्टान्तस्स्यादिति कथं दृष्टान्तासिद्धिरिति चेत् ; अत्र केचित्-कालस्वरूपस्य न परिणामः । न च क्षणलवादिपरिणामवानित्युक्तिविरोधः उपाध्यवच्छेदस्यैव परिणामशब्दार्थत्वात् । न च द्रव्यलक्षणानुपपत्तिः ; संयोगादिसम्बन्धस्यैवावस्थाशब्दार्थत्वात् । तथाच दृष्टान्तासिद्धिरित्याहुः। अन्ये तु—कालस्यास्तु परिणामः तथाऽपि क्षणिकत्वसाधकानुमाने कालोपाधित्वस्योपाधित्वात् सोपाधिकतया न सत्त्वहेतोः साध्यसाधकत्वमित्याहुः । पूर्वपक्ष्यनुसारेणापि दृष्टान्तहानि (दृष्टान्तासिद्धि) माहत्वत्पक्षे त्विति । स्वमतविरोधः-अपसिद्धान्त इत्यर्थः । यद्वा स्वोक्तिविरोध इत्यर्थः । तत्र तदुक्तिमाह--यथाऽऽहुरिति । वादिप्रतिवादिनोर्मध्ये प्रतिवाद्यसिद्धं स्वयंसिद्धं स्वमतसिद्धं पक्षदृष्टान्तादिरूपेणाभिधातुं शक्यं । तत्र प्रतिवाद्यसिद्धिशङ्कायां तत्सा (द्धिशङ्काभावात्सा)
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy