________________
396
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
. [जढद्रव्य
सर्वार्थसिद्धिः ननु क्षणक्षरणस्वभावा प्रकृतिरिति हि * भवात्सिद्धान्तः! अत्र प्रतिक्षणमुदयविलयिनो विकाराः क्षणिका एवेति तदृष्टान्तेन अन्येषां युष्माभिः किं नानुमीयते? इति चेत् ; अशक्यत्वादयं सुहृदुपदेशस्त्यज्यते । सर्वक्षणिकत्वं साधयितुमुपक्रम्य स्थिरद्रव्यवृत्तिक्षणिकविकारवदिति कथं दृष्टान्तयेम? तेषु च न त्वदाभमतं क्षणिकत्वं ; प्रदीपादिवत् * आशुतरविनाशित्वमात्रेण
आनन्ददायिनी षष्ठीसमासः । नन्विति–'नित्या सततविक्रिया' इत्यङ्गीकारात् पूर्वपूर्वविकाराणामुत्तरोत्तरविकारसमये नाशदिति भावः । सर्वेति - तथाचैकदेशबाधो व्यभिचारश्चेति भावः । दृष्टान्तयेमेति-दृष्टान्तं कुर्यां इत्यर्थः । तेषु--प्रकृतिगतविकारेषु । न त्वदभिमतामति-उत्पत्त्यनन्तरक्षणविनाशित्वरूपं क्षणिकत्वमित्यर्थः । तथाच दृष्टान्तस्य साध्यवैकल्यमिति भावः ! प्रदीपादिवदिति-ननु तादृशं क्षणिकत्वं साध्यमस्तु; प्रदी
भावप्रकाशः 1 * भवत्सिद्धान्त इति-जिज्ञासाधिकरणभाष्ये ‘यच्चान्यथात्वमिति'-यद्वस्तु प्रतिक्षणमन्यथात्वं याति तदुत्तरोत्तरावस्थाप्राप्त्या पूर्वपूर्वावस्थां जहातीत्याद्युक्तेरिति भावः । न हि वस्तुस्वभावानुविधायिन्यो वाचः । किं तर्हि ? वक्तुरिच्छामनुविदधति । अत उत्पादानन्तरस्थायिस्वरूपं क्षणशब्दार्थ इत्यादिः बौद्धानां परिभाषा अप्रामाणिकी। अनुभवविरोधेन सर्वजनासंमतत्वात् । अत एव 'तास्तु त्रिंशत् क्षणः' इत्यादिकोशेषु क्षणशब्दस्य कालविशेषवाचित्वाभिघानं संगच्छते । अतः क्षणिकशब्दो न वौद्धमतैकतान इत्यभिप्रेत्याह-2 * आशुतरविनाशित्वमात्रेणेति । एतेन विरोधवरूथिन्या उमा