________________
388
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलाप
जंडद्रव्यं
सर्वार्थसिद्धिः . . * न च त्वमपि कुत्येषु निरन्वयविनाशवित् । मत्सन्तानसमृद्ध्यमिति मत्वा प्रवर्तसे ! ॥
आनन्ददायिनी भुवनपरः । त्रयो लोका यस्येति बहुव्रीहिः । तथाच कस्यापि प्रवृत्तस्य फलप्राप्तयभावात् प्रवृत्तिर्न स्यादिति भावः । ननु सन्तानैक्यात्प्रवृत्तिस्सम्भवतीत्यत्राह-नचेति । तथाच स्वानुभवबाध इति भावः । आदिशब्देन इच्छादिर्गृह्यते । विमतं स्थिरं वस्तुत्वात् आत्मवत्
भावप्रकाशः फलभावनियतरूपाणां संस्काराणां प्रबन्धमेकत्वेनाध्यवसाय स एवाहं करोमीति व्यवहरति मुक्तये च प्रवर्तते । तदभिमानानुरोधेन च भगवन्तस्तथागताः समुच्छेददृष्टिप्रपाततो विनेयजनरिरक्षिषया सन्तानकतां दर्शयन्तः कर्तृत्वादि व्यवस्थापयन्ति । तथाविधाया एव व्यवस्थातो वस्तुसिद्धिरिति चेदाह-नाङ्गं सेत्यादि । न हि तत्वपरीक्षापराङ्मुखमतनिां संवृतिपतितानां बालजनानामभिनिवेशवशेन शक्यं तत्वं व्यवस्थापयितुम्! तदभिनिवेशस्य नैरास्यक्षणभङ्गविहितप्रमाणबाधितत्वात् , इति कमलशीलः । तत्र विनेयजनाशयानुसारेण अतत्वोपदेशः वञ्चनामात्रमिति भावेन तद्दषयति * न च त्वमपीति । अपिर्विरोधे । भवन्मतरीत्या अज्ञत्वे निरन्वयविनाशस्य ज्ञानित्वे सन्तानसमृद्ध्यर्थत्वस्य च बोधो न सम्भवति
'अनिसत्वदृष्टीनां क्षणभेदविकल्पना.। . .. सन्तानक्याभिमानेन न कथञ्चित्प्रवर्तते ॥ ५४१ ॥. ... .....