________________
सरः] त्रिगुण. क्षणिकत्वपक्षेस्वप्रवृत्त्याद्यिनुपपत्तिः तदनुमानेप्रत्यनुवाधतत्वञ्च 389
सर्वार्थसिद्धिः
तदिह स्वाभिप्रायादिबाधथ । आत्मदृष्टान्तेन च प्रत्यनुमानबाधः ।
आनन्ददायिनी
इति प्रतिरोधश्चेत्याह — आत्मदृष्टान्तेनेति । वाधः – प्रतिबन्धः । उक्ततर्कानुगृहीतत्वादस्याघिकवलतया बाघ एवेत्यर्थः । व्याप्यत्वासिद्धिं
भावप्रकाशः
५४२
अभिसंबुद्धतत्वास्तु प्रतिक्षणविनाशिनाम् । हेतूनां नियमं बुद्धा प्रारभन्ते शुभाः क्रियाः || ये तावत् अप्रहीण सहजेतरसत्कायदर्शनादयस्तेषामयं क्षणभेदविकल्पो नास्त्येव । तथाहि — ते सन्ततिमेकत्वेनाध्यवसाय सुखिता वयं भवि - ष्याम इत्याहितपरितोषाः कर्मसु प्रवर्तन्ते । येऽपि पृथग्जनकल्याणा एवं युक्तयागमाभ्यां यथावत् क्षणिकात्मतयोरवबोधादभिसम्बुद्धतत्वास्तेऽप्येवं प्रतीत्यसमुत्पादधर्मतां प्रतिपद्यन्ते । करुणादिपूर्वकेभ्यो दानादिभ्यः स्वपरहितोदयशालिनः संस्काराः क्षणिका एवापरापरे परम्परया समुत्पद्यन्ते । न तु हिंसादिभ्य इत्यतस्ते हेतुफलप्रतिनियममवधार्य शुभादिक्रियासु प्रवर्तन्ते । यथोक्तं
यावच्चात्मनि न प्रेम्णो हानिस्स ( सपदि नश्यति )परि तस्यति । तावद्दुःखितमारोप्य न च स्वस्थोऽवतिष्ठते । मिथ्याध्यारोपहानार्थं यत्नोऽसत्यपि भोक्तार ||
इति' इति तत्वसंग्रहपञ्चिकोक्तिरपि अत्रैव पूर्वं ' सर्वे पूर्वे भवेयुस्तदुपरिभवतां कारणानि क्षणानां' इत्यादिविवरणे दूषितप्रायेति
भावः ॥